SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ सहारने योऽर्थरूपोऽशोऽवशिष्टो वर्तते तम् अवशिष्टमर्थरूपमशं यदि सः 'अहिम्जिस्सामि' मध्येण्ये इत्ति कथयित्वा यदि 'अहिज्जेज्जा' अधीयेत आचारालादेः शेषभागं पठेत् यदवशिष्टं सत् सर्व पश्चात् मध्येप्ये इत्युक्त्वा यदि तत्कालमेवाऽधीते अध्येतुं प्रारभेत तदा-'एवं से कापड आयरियउबझायत्ताए उहिसित्तए' एवं सति सस्य कल्पते तहिवसे आचार्योपाध्यायतया उद्देष्टुं स्थापयितुम् । यदि पुनः 'से य अदिज्जिस्सामि ति नो अहिज्जेजा' तच्चावशिष्टमंशम् अध्येध्ये इति कथयित्वाऽपि नो अधीयेत पठनवचनानन्तरं 'न मम तदध्ययनसामर्थ वर्तते' इति वदेत् तदा 'एवं से नो कप्पइ आयरियवशायत्ताए उहासत्ता तहिवसं' एवं सति तदा तस्य नो कल्पते आचायतया वा उपाघ्यायतया वा उद्देष्टुं स्थापयितुं तदिने तस्मिन्नेव दिवसे इति ।। सू० १० ॥ पूर्व तदिवस एवाचार्यादिपददानविधिरुक्तः, सम्प्रति कालाते आचार्योपाध्याये गवदीक्षितादिभिराचार्योपाध्यायराहित्येन न भामिति तद्विधिमाइ-'निग्गंथस्सणं' इत्यादि । सूत्रम्---णिग्गंथस्स णं नव-इहर-तरुणस्स आयरियउवमाए विसंभेज्जा नो से कपइ अणायरियउवायत्ताए होलए, कप्पइ से पुच्वं आयरियं उदिसावेत्ता तमो पच्छा उवज्झायं, से किमाहुमंते ! संगहिए समणे णिग्नपे तं जहा आयरिपण उवमाएण य ॥ सू० ११ ॥ छाया--निर्ग्रन्थस्य स्खलु नव-डहर-तरुणस्य आचार्योपाध्यायो निष्कम्मेत् । मो तम्य कल्पते अनाचार्योपाध्यायतया भवितुम्, कल्पते तस्य पूर्वमाचार्यमुद्देशाप्य ततः पश्चात् उपाध्यायम्, अथ किमाहुभदन्त ! विसंगृहीतः श्रमणो निर्मन्धः तयथा आचायेणोपाध्यायेन च ॥ सू०११ ॥ भाष्यम्--'णिग्गयस्स गं' निर्मन्यस्य स्खलु 'नव-डहर-तरुणस्स' नव-डहर-तरुणस्म, तत्र नवो नवदीक्षितः, यस्य त्रीणि वर्षाणि दीक्षापर्यायस्य व्यतीतानि भवेयुः स नव उच्यते । डहरः-अन्मपर्यायेण वर्षचतुष्टयादारभ्य यावत् परिपूर्णानि पञ्चदशवर्षाणि षोडशाद वर्षादाक् स डहरकः प्रोच्यते, ततो वर्षचतुष्टयादारभ्य परिपूर्णपञ्चदशवर्षपर्यन्त जन्मदीक्षापर्यायवानिव्यर्थः । तरुणः-जन्मना पर्यायेण वा पोडशवर्षादारम्य यावत् चत्वारिंशद्वर्षाणि तावत् स तरुणः प्रोच्यते, इति नवडहरतरुणेति-पदयस्य व्याख्या । लतः परं यावद एकोनषष्टिवर्षाणि तावन्मध्यमः, ततः षष्ठिवर्षादारभ्य तदुपरि यावजीवेत्तावत् स्थविरपदयाग्यो मवतीति । सादृशस्य नवस्य डहरस्य तरुणस्य च 'आयरियउवमाए' भाचार्योपाध्यायः आचार्यः उपाध्यायश्चेत्यर्थः । 'वीसभेज्मा' विष्कम्भेत् नियेत मवादिश्रमणानां मध्ये प्रत्येकस्य यघाचार्यों म्रियते तदा 'नो से कप्पर अणायरियउयमायत्ताप होतए'
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy