SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ।..man o r--- - - --- - ध्यपहारसूर्य ssचार्यबादीनि आरोग्यमाणानि घटन्ते, अगीतार्थचात् , इति शिष्यप्रश्नः । आचार्यः प्राह'अस्थि णं' इत्यादि, 'अस्थि ण' इति सन्ति खलु 'थेराग' स्थविराणामाचार्याणां गच्छनायकानाम् 'तहाल्पाणि' तथारूपाणि आचार्यादिप्रायोग्यानि 'कुलाणि' कुलानि साधुसाध्वीश्रावकश्राविकारूपाणि 'कडाणि' तेन कृतानि गच्छप्रायोग्यतया निर्त्तितानि संपादितानि येन यत् यथाकालं तेभ्यः तत्प्रायोग्यं भक्कादिकमुपधिचोपजायते, उपलक्षणमेलत्-तेन न केवलं तथारू. पाणि कुलानि कृतानि मपि तु आचार्यबालवृद्धग्लानादयोऽप्यनेकधा संग्रहोपप्रहविषयीकृताः, इत्यपि इष्टव्यमिति । न केवलं तथारूपाणि कुलान्येव तानि कृतानि किन्तु-'पत्तियाणि' प्रत्ययिकानि गछस्य प्रीतिकराणि विनययुक्तानि कृतानि | 'थेनाणि' स्थैर्याणि नैकवार दिवारं वा गच्छत्य प्रीतिकराणि कृतानि अपितु स्वैर्याणि अनेकवारं गच्छस्य प्रीतिकराणि विनययावृश्यादिना स्थायित्वेन कृतानीति । अथवा स्थैर्याणि प्रीतिकरतया गाछचिन्तायां प्रमाणभूततया स्थिरीकृतानि, यदा खलु गच्छे एवं विचारणा भवेत् यत् गछस्य कः स्थायी प्रीतिकरः ? तदा एतान्येव कुलानि प्रमाणतया समुपस्थितानि भवन्ति । एवं गच्छचिन्तायां प्रमाणभूततया स्थिरीकृतानीति । न केवलमेतावदेव अपि तु 'वेसासियाणि' वैश्वासिकानि आत्मनः मन्येषां च गच्छवासिनां मायारहितीकृततया विश्वासयुक्तानि कृतानि । यत पत्र विश्वासयुक्तानि मत एवं 'समयाणि समतानि तेषु तेषु प्रयोजनेषु इष्टानि 'संमुइयकराणि' संमुदितकराणि जिनवचनेऽनुरागमुत्पाथ जिनधर्मे प्रमोदकराणि कृतानि । 'अणुमयाणि' अनुमतानि यतो गच्छे बहुशः कलेशादिषु समुत्पन्मेषु गछस्यानुकूनानि कृतानि, अत एव 'बहुममाणि' बहुमतानि बहूनामनेकेषां बालवृद्धालानादीनाम् अतिशयत इष्टानीति बहुमतानि भवन्ति ततः "ज से' यत् यस्मात्कारणात् स श्रमणो निर्मन्यः 'तेहिं कडे हिं तेहिं पत्तिपहिं तेहिं येज्जेहि तेहि सासिएहि तेहि संमएहि तेहिं संमुहयकरेहि तेहिं अणुमएहि नेहिं बहुमएहि तैः कृतैः, तैः प्रत्ययिकैः, तैः स्थैथैः, नासिक, तैः संमतः, तैः समुदितकरैः, तैरनुमतेः, तेवहुमतैः पूर्वोक्तस्वरूपैः कुलैः गच्छप्रायोग्यकरणादिकारणात् कदाचित् तत्करणे मोहकमोंदयात् , तत्तत्प्रसङ्गप्राप्तकारणविशेषाद्वा 'निरुद्धपरियाए' निरुद्धपर्यायः त्यक्तसंयमपर्यायो भवेत् , पुनश्च शुभकर्मादयात् सावधानीमय दीक्षां गृह्णीयात् एतादृशः स श्रमणो निर्मन्थः 'कप्पई कल्पते 'आपरियउयज्झायचाए' आचार्योपाध्यायतया आचार्यतया उपाध्यायतया च 'उदिसित्तए तदिवस' उद्देष्टुं तदिवसे यस्मिन् दिवसे दीक्षा गृहीता तस्मिन्नेव दिवसे स गन्छोपकारकगुणवत्वात् आचार्योपाध्यायपदे स्थापयितुं योग्यो भवतीति भावः । अयं भावः-येन मुनिना पूर्वदीक्षाकाले साधुकुलानि साध्वीकुलानि श्रावककुलानि श्राविकाकुलानि खेति, चतुर्विधसङ्ककुलानि बहुश आचार्यगच्छादिप्रायोग्यानि कृतानि प्रीतिकरादि. पदवाक्यानि कृतानि बहुशो चालवृद्धग्लानादयः संग्रहोपमहादिविषयीकृताः, तैः तादृशैः
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy