SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ पीडिताः । अशक्तास्तद्वधेऽन्योऽन्यं, पर्यालोचं वितेनिरे ॥ २०५ ॥ शम्भोर्षीय विना नान्यस्तारकं हन्तुमीश्वरः । स तु! सम्भोगसंलीनोऽस्ति दयाँ हिमभूभृतः ॥ २०६ ॥ भिया कोऽपि न तत्पार्थ, यात्यन्यो घनलं बिना । अतः सम्प्रायते गन्तुमिति ते यै वभाषिरे ॥ २०७ ॥ परोपकारिणः कार्यमेकस्यापि प्रकुर्वते । विशिष्य सर्वदेवानां, कृत्ये कःस्यात्पराङ्मुखः १ ॥ २०८ ॥ यदर्थमखिला देवा, ममाश्चिन्तामहार्णवे । तत्रानल! भवानेव, गन्तुमीशो न चापरः ॥ २०९ ॥ तद्गत्वा दर्शयात्मानं, हिमाद्रिस्थस्य शूलिनः । कदाचित्त्वां विलोक्येशः, स्मरक्रीडां विमुञ्चति ॥ २१ ॥ हव्यवाहोऽथ तानूचे, कः शम्भोः सम्मुखं प्रजेत् । विशिष्यवृपयस्वस, खस श्रेयोऽभिलाषुकः ? ॥२११ ॥ खट्वाङ्ग-1 धारिणं शूल-पाणिं नरकपालिनम् । श्मशानवासिनं कस्तमभिगच्छेजिजीविषुः ॥ २१२ ॥ ऊर्ध्वमुल्लास्य यो लिक, | ताण्डवेन प्रनृत्यति । बलारिरपि तत्पार्थ, गन्तुमीशो भवेन्नहि ॥ २१३ ॥ कदाचित्कन्दरान्तःस्थः, शूलपाणिनि-18 हन्ति माम् । तदा मे का गतिः स्यात्तन्न मां प्रेषयतामराः ! ॥२१४॥ तेऽप्यूचुर्मा स्म भैषीस्त्वं, यतोऽयं पार्वतीवशः। नूनं जगदिदं सम्यग् , दम्यते प्रमदाजनैः ॥ २१५ ॥ उक्तञ्च-मासेन दम्यते वाजी, वर्षेणोन्मत्तकुञ्जरः । निमेषो-2 न्मेषमात्रेण, पुमांस्तु प्रमदाजनैः ॥ २१६ ॥ यदेव रोचते गौर्यास्तदेव कुरुते हरः । किं नाऽनल! त्वया दृष्टोऽ के 5 तामुहहन्नयम् ॥ २१७ ॥ अतस्त्यज त्वमाशङ्का-मेतां यत्कुपितो हरः । न कर्ता भवतः पीडा, गौरीखान्तानुवृत्तये ॥ २१८ ॥ एवमस्त्विति गत्वाऽमिहिमवत्कन्दरान्तरे । प्रेक्षत त्रिपुराराति, रतिलीलाविसंस्थुलम् ॥ २१९ ॥
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy