SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ शुचाऽऽतुरा । भर्तुर्निवेदयामास करुणं रुदती सती ॥ १९० ॥ क्रन्दन्तीं दयितां दृष्ट्वा मृतं च पवनः सुतम् । ततो रसातलं कोपात् प्रविश्य स्थितवानसौ ॥ १९९ ॥ पचन निरोधेन, सदेवमनुजासुरम् । जगज्जातमतीवार्त्त, मृत्युशेषमशेषतः । १९२ ॥ ततो दीनानना देवास्तं प्रसादयितुं गताः । हनुमन्तं सजीवं च, संयोज्यावयवान् व्यधुः ॥ १९३ ।। हनुरेकाऽस्य नो दृष्टा, शोधयद्भिः सुरैस्तदा । तद्वियुक्तेऽपि हनुमानिति तस्याभिधा कृता ॥ १९४ ॥ पवनस्याङ्गजवर्णीभूतश्चेन्मिलितोऽभवत् । अपूर्वं तत्कथं ? भ्रातस्त्वद्वाचां ब्रूमहे वयम् ॥ १९५ ॥ कथायां रामभद्रस्य, सीतापहरणक्षणे । सेतुबन्धे कृते लङ्कापुरीं दाशरथौ गते ॥ १९६ ॥ रामरावणयोवीरधोरे समरविवरे । प्रारब्धे क्षुब्धपाथोधौ, सिंहनादस्फुटन्नगे ॥ १९७ ॥ लङ्केशभटनिर्मुक्त- शैलयावल्लभल्लकैः । शक्तिभिश्वासिभिश्चिनाङ्गोपाङ्गे कपिसैनिके ॥ १९८ ॥ शक्तिप्रहारनिर्बद्ध-भूमीपतितलक्ष्मणे । रामप्रलापनिर्घोष -प्रतिशब्दितभूधरे ॥ १९९ ॥ द्रोणाद्रेर्वायुपुत्रेण, समानीतविशल्यया । सौमित्रेर्वक्षसः शक्तिर्निरगात्पापधीरिव ॥ २०० ॥ पञ्चभिः कुलकम् । तया विशल्यया सिक्ताश्छिन्नाका अपि वानराः । सजीवाः सहसोत्तस्थुर्मिलितावयवत्रजाः ॥ २०१ ॥ छिन्नाङ्गा अपि चेज्जाताः, सजीवाः प्लवगास्ततः । भवान् खण्डीकृतः किं न ?, आतः ! प्राणिति सम्प्रति ॥ २०२ ॥ जगप्रसिद्धमन्यच, कार्तिकेयस्य सम्भवम् । किं नाश्रीषीद्भवान् भूयोग्रन्थेषु ग्रथितं बुधैः ? ॥ २०३ ॥ हिमाचलगुहामध्ये, मैथुनासक्तयोस्तयोः । गौरीशङ्करयोर्जज्ञे, दिव्यं वर्षसहस्रकम् ॥ २०४ ॥ तस्मिन्नवसरे देवास्तारकासुर -
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy