SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ॥ १३१ ॥ तावत्तत्र हरिमरु, गरुडं मुशल हलन् । नागान् शहं गदां चक्रं, मन्दरं क्षिसवांश्च सः ॥ १३२ ॥ सन्धानावसरे सूरं, विधुमग्निं पयोनिधीन् । सशैलामचलां तत्र, चापे चिक्षेप केशवः ॥ १३३ ॥ अङ्गुलिप्रमाणेस्मिंस्तेनाकृष्टे मुरद्विषा । छलेन मोचिते बाणे, सचापश्चेदिपोऽपतत् ॥ १३४ ॥ पार्थोऽथासहमानायामु| तद्भारमजसा । आरुह्य भीमहस्ताने, चापरोपणमातनोत् ॥ १३५ ॥ कर्णप्रदत्तवाणेनार्जुनो राधां विभिद्य ताम् । यशः। सम्प्राप्तवाँल्लोके, कृष्णां च परिणीतवान् ॥१३६॥ यदि चापान्तरे ते ते, पदार्था निखिला ममुः। तत्कि ढिके महाकाये, न मान्यजगरादयः? ॥ १३७ ॥ किञ्च रामायणे भ्रातः!, श्रूयते विहगोत्तमः । जटायुः सीतापहारे, युयुधे रावणेन । सः ॥ १३८ ॥ दशाननेन रुष्टेन, चन्द्रहासमहासिना । छित्त्वा पक्षयुगं भूमी, स भून इव पातितः ॥ १३९॥ सीतया च स पक्ष्यूचे, शीलमाहात्म्यतो मम। पक्षौ भविष्यतो रामदूतसंदर्शनात्तव ।। १४० ॥ अन्यदा दाशरथिना, जानकीशुद्धिहेतवे । आदिष्टो हनुमानुरू, भ्राम्यंस्तत्र समाययौ ॥ १४१ ॥ अहो गिरिरसावुधैर्हनुमानित्यचिन्तयत् ।। य(त)दवारुह्य पश्यामि, समन्तान्महिमण्डलम् ॥१४२।। ततो जटायुषा पृष्टः, कस्त्वं भोः ! स तमब्रवीत्। रामदूतोऽस्मि । सीतायाः, प्रवृत्त्यर्थमिहागमम् ॥ १४३ ॥ पक्ष्यप्याख्यद्रामजाया, विलपन्ती पथाऽमुना, । अपहृत्य दशापेन, लङ्कापुरीमनीयत ॥ १४४ ॥ किं भ्राम्यसि मुधाऽरण्यं, हनुमंस्त्वरया ब्रज । इदं संदेशयाक्यं च, रामाय कथयेमम ॥१४५॥ सीतार्थे युध्यमानोऽहं, रावणेन दुरात्मना । छित्त्वा पक्षौ खखनेन, मुक्तोऽतोऽगामिमां दशाम्॥१४६॥
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy