________________
एलाषाढस्ततः प्रोचे, प्रतीमो नात्र संशयः । कण्डरीकोऽवददामो, चालुक्यन्तः कथं ममौ १ ॥ १०२ ॥ एलापा-1 ढोऽथ तं स्माह, किं भ्रातर्न श्रुतास्त्वया । दृष्टान्ता विष्णुपुराणे, भारते च किलेदृशाः ॥ १०३ ॥ आसीत्पुरा जगत्पञ्चमहाभूतविवर्जितम् । जलेनैकार्णवीभूतं, तत्राण्डमभवत्किल ॥ १०४ ॥ ऊर्मिप्रेढोलनाभिस्तद्भिग्नं त्रिविध-| तामगात् । त्रिविष्टपमहीपीठरसातलविभेदतः ॥ १०५ ॥ यद्यण्डे ताशं सर्वे, समाजगता अयम् । वालुक्यां तईि, सग्रामः, कथं माति न बान्धवः १ ॥ १०६ ॥ शास्त्रेऽन्यच्चारण्यपथे, मार्कण्डेयोऽवदन्मुनिः । धर्माजस्यान्ययुगानुभूतं तच्छुतीकुरु ॥ १०७ ॥ सकलाम्भोभिरनोत्थैर्लोक एकार्णवीकृते । लोलकल्लोलमालाभिः, प्रेर्यमाणोऽम्बुधौ । गतः ॥ १०८ ॥ सर्वशून्यं जलाकीर्ण, जगत्पश्यन्नृषिस्ततः। एकं तत्र महाकायं, वटवृक्षमुदैवत ॥ १०९ ॥ शाखायां तस्य पल्यङ्कमपश्यत् तत्र चार्भकम् । सर्वाङ्गसुन्दराकारं, तेजस्तर्जितभास्करम् ॥ ११ ॥ प्रसारितकरं तं चावादीदेवेहि दारक ! । ममांसे लग तेऽम्भस्सु, पतनान्मा स्म गान्मृतिः ॥ १११ ॥ सोऽप्यसमवलम्ब्यास्यावतारीत्स ततो मुनिः । आस्खे प्रसारितेऽपश्यद्विश्वं तस्योदरेऽखिलम् ॥ ११२ ॥ प्रविष्टस्तत्र वर्षाणां, सहस्रं दिव्यमञ्जसा । मन्पारमपारस्य, नापपिर्निरगात्ततः ॥ ११३॥ सशैलकाननं विश्वं, ममौ चेद्दारकोदरे। तदा माति न कि ? ग्रामो, यालुझ्क्यां कण्डरीक भोः! ॥११४॥ ढिइन्कोदरे ह्यजगरस्तस्याजाऽस्याश्च चर्भटी। तस्यां ग्रामः कथमिति, प्राख्यस्तच्छृणु यच्म्यहम् ।। ॥ ११५ ॥ यदि त्रिजगती सर्वा, ममी विष्णोः किलोदरे। कुक्षौ सोऽपि हि देवक्यातल्पस्याभ्यन्तरेऽपि सा ॥११६॥