SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ कूपारामसरोराजीराजितं ग्राममासदम् ॥८६॥ तस्य मध्य महाकायः, सच्छायो वटपादपः । कमलाख्यो महायक्षस्त-1 |न्मूलमधितिष्ठति ॥ ८७ ॥ पञ्चोपचारबलिभिः, स जनैः पूजितोऽनिशम् । समीहितं बरं दत्ते, को न मान्यो भवेद्गुणैः N८८॥ ततस्तं कौतुकात् यक्षं, नत्या ग्राम्यजनेष्वहम् । यावद्विचित्रक्रीडाभिरात्मानं स्म विनोदये ॥८९॥ सन्नद्धबद्धकवचा, विविधायुधपाणयः। सुतरां दारुणास्तावन्निपेतुस्तत्र तस्कराः ॥ ९० ॥ सवालवृद्धाः सस्त्रीका, ग्राम्या जनप|दान्विताः। पशुभिश्च समं भीत्या, वालुकयां विविशुद्धतम् ॥ ९१ ॥ तत्रस्थानपि तान् ग्राम्यानपश्यन्तोऽन्धला इव । चौरास्ततस्ते व्यावृत्ता, नष्टो ग्राम इतीरिणः ॥ ९२॥ पशुवृन्दं चरत्तत्र, विश्वस्तं समुपेयिवत् । तन्मध्यादेकया छाग्या, वालुङ्गी परिजनसे ॥ ९३ ॥ साऽपि ग्रस्ताऽजगरेण, सोऽपि ढिकन जनसे । स चोडीय बटेऽतिष्ठभूमिप्राप्तपदः खगः । |॥९॥ तत्र केनापि भूपेन, सैन्यावासे विनिर्मिते । स्तम्भधान्या ढिकपादे, बद्धो मिण्ठेन कुञ्जरः ।।९५ ॥ ढिकेनोडीयमानेन, सह यान्तं विलोक्य तम् । पूञ्चक्रुरिति हा मिण्टाः!, केनापि हियते करी ॥ ९६ ॥ तेषां कलकलं श्रुत्वा, सुभटाः शब्दवेधिनः । तत्रैयुाकुला बाणबाणासनकरा रयात् ॥ ९७ ॥ सुभटैः शरधोरण्या, च्छिन्नमूर्धा वटव्युत्तः।। बढिकपक्षी पपाताऽऽशु, वज्रपात इव क्षितौ ॥९८ ॥ पक्ष्यङ्गे दारिते राज्ञाऽजगरो निरगात्ततः । अजा तस्याश्च वालुङ्गी, ततो ग्रामादयोऽखिलाः ॥ ९९ ॥ ते सर्वे नृपतिं नत्या, स्वखवस्तुसमन्विताः। निजं स्थानं ययुरहमत्रायातश्च सम्प्रति है ॥ १० ॥ एवं मयाऽनुभूतं भो!, गदितं भवतां पुरः । यो न मन्येत धूर्तानां, स ददात्वद्य भोजनम् ॥ १०१॥
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy