________________
ऊचुरिदं रविम् ॥ ७१ ॥ वरदानक्षणे सूर्य ! त्वया भारतसंयते । भारावतारकालेऽसाववताय नृजन्मनि ॥ ७२ ॥ तस्मिन् काले रविः कुन्तीमुपभुज्यताम् । तत्कुक्षौ तं नरं चाशु गर्भत्वेनोदपादयत् ॥ ७३ ॥ सन्नद्धबद्धसन्नाहः, कुन्त्याः कर्णात्स निर्ययौ । यथा तथा त्वमप्यस्मात् कुण्डीरन्धाद्विनिःसृतः ॥ ७४ ॥ यच्चायोचः कथं गङ्गामपरां तीर्णवानहम् ? । अदोऽर्थे साधकं भद्र !, शृणु रामायणोदितम् ॥ ७५ ॥ हनुमान् राघवादिष्ट, जानकीशुद्धिहेतवे। तीर्त्वा भुजाभ्यामम्भोधिं, क्षणालङ्कापुरीमगात् ॥ ७६ ॥ दृष्ट्या सीतया तत्र, प्रियसंदेशतुष्टया । पृष्टः कथं त्वया सिन्धुस्तीर्णः ? सोऽप्यत्रवीदिति ॥ ७७ ॥ तव प्रसादात्तव च प्रसादाद्भर्तुश्च ते देवि ! तव प्रसादात् । साधून (न्न) ते येन पितुः प्रसादात्तीणों मया गोष्पदवत्समुद्रः ॥ ७८ ॥ यदि तेन तिरश्चाऽपि समुत्तीर्णो महार्णवः । तदा गङ्गा त्वया किं न, १ लङ्घयते स्म नरोत्तम । ॥ ७९ ॥ यदवादीः कथं धारा, पण्मासीं मूर्ध्नि धारिता ? । अस्मिन्नर्थेऽपि हेतुं त्वं शृणु भूदेवभाषितम् ॥ ८० ॥ सुरैरभ्यर्थिता गङ्गा, लोकानां हितहेतवे । भूमाववातरत्स्वर्गात् साऽप्येवं तानदोऽवदत् ॥ ८१ ॥ युष्माखिलां पतन्तीं मां, को धर्चेशस्तदाऽवदत् । अहमित्यूचुषा तेन सा धृता निजमूर्द्धनि ।। ८२ ।। दिव्यं वर्षसहस्रं चेत्तेन गङ्गा धृता खके । तत् त्वं कथं न पण्मासीं वारिधारामधारयः ? ॥ ८३ ॥ एवं निरुत्तरो मूलदेवः प्रोवाच तं प्रति । कण्डरीक! त्वमप्यात्मानुभूतं वद किञ्चन ॥ ८४॥ कण्डरीकोऽवदद्वाल्ये, दुर्विनीतोऽभवंतराम् । पितृभ्यामत एवाहं, हठान्निर्वासितो गृहात् ॥ ८५ ॥ ततो भ्राम्यन्नहं देशानेकं गोमहिषीवृतम् ।