________________
| स्मरोद्रेकाद्विदधातु तपश्युतम् ॥ ५६ ॥ इन्द्रादेशादथ क्षिप्रं स्वपरिच्छदसंयुता । गत्वा तिलोत्तमा धातुः पुरो नृत्यमसूत्रयत् ॥ ५७ ॥ यथा यथाऽसौ नृत्यन्ती, करेणोलासितांशुका । विधेरदर्शयत्स्वानं, चुक्षुभे स तथा तथा ॥ ५८ ॥ तस्या निभालयन्नङ्गं, विधाता निर्निमेषदृक् । त्यक्तान्य सर्वव्यापारः, कामिवत्तत्स्पृहोऽभवत् ॥ ५९ ॥ विज्ञाय साऽपि तद्भावं, लावण्यामृतसारणिः । ब्रह्मणो दक्षिणे पार्श्वे, भूत्वा नृत्यमसूत्रयत् ॥ ६० ॥ तद्रूपमोहितखान्तः, सोऽपि कामज्वरार्दितः । तां विलोकयितुं वक्त्रं, द्वितीयं निर्ममे पुनः ॥ ६१ ॥ एवं तृतीयं वारुण्यां, कौबेर्या च चतुर्थकम् । तस्यामूर्द्ध गतायां च स चक्रे पञ्चमं मुखम् ॥ ६२ ॥ तिलोत्तमाऽनुरक्तस्य ब्रह्मणः पञ्चमं सुखम् । रुद्रेण पर्शुतीक्ष्णेन, नखेनाच्छिद्यताऽऽशु तत् ॥ ६३ ॥ ततो ब्रह्माऽतिकोपेनाऽपसव्यकरजातया । प्रदेशिन्यो द्व भालं, शेषं समुदपाटयत् ॥ ६४ ॥ सितकुण्डलिनामा स, क्रोधाद्धात्रा न्ययोज्यत । गौरीप्राणेश्वरं हन्तुं, व्याधवन् मार्गणी मृगे ॥ ६५ ॥ नश्यंस्तस्य भिया शम्भुर्गत्वा बदरिकाश्रमे । नियमस्थं हरिं मां, भिक्षां देहीत्यभाषत ॥ ६६ ॥ तत्तस्तेन निजाङ्गालाद्रक्तधारा व्यमुच्यत । तदधोऽस्थापयत्सोऽपि ब्रह्मणः पञ्चमं शिरः ॥ ६७ ॥ रक्तेनापरिपूर्ण तत्सहस्रैः शरदामपि । हरो विलोडयामास, कराङ्गुलिकयैकया ॥ ६८ ॥ पितामह शिरोविष्णुर केशाङ्गुलि योगतः । समुत्पेदे महांस्तत्रैको नरो रक्तकुण्डली ॥ ६९ ॥ रुद्रेणादेशि योद्धुं स सितकुण्डिलिना सह ( वर्षसहस्रं तु, जातमायोधनं तयोः ॥ ७० ॥ तयोर्युद्धनिषेधाय, नरं दत्त्वा सुरेशितुः भास्करस्य द्वितीय & सुरा
।