SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ * *** पतितास्तेभ्यः, कीचकानामभूच्छतम् ॥ ४१॥ तां नाली स ऋषिस्तत्र, निधाय खाश्रयं ययौ । राजाऽपि रक्षयामास, ततो पंशकुडाकम् ॥ ४२ ॥ नाल्याः सम्पूर्णसर्वाङ्गान् , यद्राज्ञी ह्याददेऽर्भकान् । तेन ते तत्सुतत्वेन, प्रोच्यन्ते की-18 चका जनैः ॥४३॥ कीचकानां शतं प्रौढं, तादृग्नाल्यां ममौ यदि । ततस्त्वं सगजो मासि, कथं नैव कमण्डलौ? ॥४४॥ गङ्गा वर्षसहस्रं चेन्जदावीशेन मोहिता। षण्मासांस्तु त्वयाऽमोहि, हस्ती कुण्ड्यामिदं घृतम् ॥ ४५ ॥ कुण्ड्या नालादहं दन्ती, लमकेशश्च निःसृतौ । कथमत्रापि हे भ्रातः!, शृणु पौराणिकं वचः॥ ४६ ॥ प्रलये सर्वभूतानां, जलेकार्ण वतां गते । जगत्रये जलेशायी, तस्थावेको जलाशयः ॥ ४७ ॥ जगत्सृष्टिकृतस्तस्य, नाभिपमाद्विनिर्ययो । दण्डकु-16 मण्डीकरो ब्रह्माऽजनालं तत्र चालगत् ॥ ४८ ॥ इत्थं कुण्डीमुखाच्चेत्त्वं, सेभो भ्रातर्विनिर्गतः । तत्केशस्तत्र लग्नश्च ।। किमयुक्तं भवेत्ततः? ॥ ४९ ॥ कमण्डलोमुखाद्धातः?, कथं विनिरगामिति । यद्रूषे तस्य संवादं, शृणु भारतभाषितम् ॥ ५० ॥-दिव्यं सहस्रं वर्षाणां, तपः कुर्वति धातरि । क्षुब्धाः सुराः स्म जल्पन्ति, विघ्नमस्य भवेत्कथम् १ ॥५१॥ इन्द्रोऽवक-स्त्रीषु लोलोऽयं, यदुमापाणिपीडने । अग्निकर्मणि नियुक्तो, गौरी दूषितवाससम् ॥५२॥ दृष्ट्वा क्षुब्धो बीजसम्र्ग, कृत्वा वासो व्यधूनयत् । अथ तत्पतितं कुम्भे, द्रोणाचार्यस्ततोऽभवत् ॥५३॥ युग्मम्॥ सप्तर्षयः सुराधीशा, देवा हरिहरादयः । मुक्त्वैकं श्रीमहावीर, खण्डिता हि मनोभुवा ॥५४ ॥ उग्रवतघरास्तीव्रतपश्चरणकारिणः । अन्येऽपि स्परवाणा , दासाः स्वीमिर्न के कृताः १ ॥ ५५ ॥ उत्तमा सर्वदेवीनामतो गत्वा तिलोत्तमा । पितामह ** *
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy