SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ परस्परं वदन्ति स्म, को नो दाताऽद्य भोजनम् ? ॥११॥ जगाद मूलदेवोऽथ, खानुभूतं श्रुतं हि वा । यद्येन वृत्तं तत्तेन, धूर्तानां कश्यतां पुरः ॥ १२ ॥ यस्तन्न मन्यते तेषु, वचः सत्यतया पुनः । तेन देयं समग्राणां, धूर्तानामद्य भोजनम् । I॥ १३ ॥ श्रीभारतपुराणोक्तिरामायणनिरूपितैः । संवादिवचनैर्धूर्तान् , प्रत्याययति नः पुनः ॥ १४ ॥ स धूर्तानां 5 शिरोरत्नमददानोऽपि भोजनम् । इत्युक्त्वा मूलदेवोऽथ, प्रथमं तानभापत ॥ १५ ॥ मया तरुणभावे यदनुभूतं महाधियः । तदाकर्णयतोत्कर्णाः, कश्यमानमिहाधुना ॥ १६ ।। एकदा तरुणत्वेऽहमीहमानः सुखासिकाम् । कमण्डलहसणाणिः, स्कन्सविसरहकरनलः ॥ ११ ॥ दिधीर्षः वर्णदीधारा, प्रस्थितः स्कन्दमन्दिरम् । यावत्ताय-12 न्मदोन्मत्तो, दन्ती प्रादुरभूत्पुरः ॥ १८ ॥ युग्मम् । पर्जन्य इब गर्जन्तं, सिञ्चन्तं मां मदाम्बुभिः । अभ्यायान्तभिभं 8 | पश्यन्नातङ्कव्याकुलोऽभवम् ॥ १९ ॥ एतस्मात्कथमात्मानं, कृतान्तात्कुपितादिव । नश्यामीति भयाऽऽवेशात्माविशं कुण्डिकान्तरे ॥ २० ॥ मदभिन्नकटः सोऽपि, करटी प्रसरत्करः । ममानुपदिकः कुण्ड्यां, प्राविक्षनालकाऽध्वना ॥ २१ ॥ कुम्भी स कुम्भीनसवत्फूत्कारान रोपतः सृजन् । मत्पृष्ठलमो भ्राम्यंश्च, षण्मासी तत्र वञ्चितः ॥ २२ ॥13 ममैपोऽद्यापि नो पृष्ठं, मुञ्चतीति विचारवान् । ततोऽहं कुण्डिकाद्वारान्निरगां नरकादिव ॥२३ ॥ मत्पृष्टे निःसरत्नेष, सिन्धुरोऽपि मदोद्धरः । कुण्डिकारन्ध्रसंलमपुच्छकेशोऽस्खलत्क्षणम् ॥ २४ ॥ ततः खर्गनदीं नारीमिव पीनपयोधराम् । दृष्ट्वा गोष्पदवत्तीत्वोऽध्यगां स्कन्दस्य मन्दिरम् ॥ २५ ॥ अवधूय क्षुधोदन्ये, पण्मासीं तत्र तिष्ठता । पतन्ती
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy