SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ -~ दृशः, तत्प्रणीतैर्वचनैः, अथवा पाल्मीकव्यासप्रथितै रामायणाभारताधसत्यप्रलापप्रायैः शास्त्रैः, 'गुपिलढण्द्वैः' गहनतरदम्भसंरम्भप्रतिपादनप्रवीणैः 'भन्दमतिः' प्राणी अज्ञातजिनागमो मोहमापद्यते इति प्रमुखते, भक्षितहत्पूर इव हृदयं तु : मुखते,'तेन हेतुना मिथ्यादृशः शुद्धबुद्धिभिः' सम्यग्दर्शननिर्मलीकृतमतिभिः, 'दरेण वर्जनीयाः'सर्वथा तत्सङ्गः परिसाज्य : एवेति गायाथः ।।१२।। एतदर्थसत्यापनार्थ वैश्रमणश्रेष्टिदृष्टान्तो मूलदेवादिपञ्चधूर्तस्वरूपोपलक्षितः प्रतन्यते, तथाहि| समस्ति भारते वर्षे, हर्षोत्कर्षकरे सताम् । श्रीअवन्याह्वयो देशो, लेशो यत्र न पाप्मनाम् ॥ १ ॥ स्वःपुरी जयिनी तत्र, समस्त्युज्जयिनी पुरी। यां द्रष्टुमिव गीर्वाणा, निर्निमेषत्वमाश्रिताः ॥ २॥ तमालतालहितालरसाई लावलिमालितम् । तस्या उत्तरदिग्भागे, जीर्णोद्यानाभिधं वनम् ॥ ३ ॥ नन्दनाघेरलं फल्गुफलैर्भाग्यफलं त्यहम् । नृत्यतीवेति यद्वातविधूतैः पल्लवैः करैः ॥ ४ ॥ तत्रामात्रगुमेऽन्येधुर्वाचाला निकृतिव्रताः । भूयांसो भूरिदेशेभ्यः, समीयुधूर्तपुङ्गवाः ॥५॥ यैरवखापिनीप्राज्यरूपिणीमोहिनीमुखैः । धूपयोगाअनाद्यैश्च, दम्भैः कः को न वञ्चितः? ॥ ६ ॥ मूलदेवः कण्डरीक, एलाषाढः शशाह्वयः । खण्डापानाभिधा स्त्री च, तेषां पञ्चेश्वरा अमी ॥७॥ प्रत्येकं ते नृधूर्तीना, पञ्चशत्या परिपृताः । खण्डापाना किलैका तु, नारीपञ्चशतान्विता ॥ ८ ॥ वर्षाकालतदा प्रादुरासीन्नि शिताऽऽतपः । प्रकाशयन् घनैः खस्य, राज्यमेकातपत्रितम् ॥ ९॥ सप्ताहं वारिदेनाम्धुवृष्टिं विद-: धताऽधिकम् । बभूव बालजम्बालपिच्छलं क्षोणिमण्डलम् ॥ १० ॥ तदा धूर्ताः क्षुधाक्रान्ताः, शीतेन परिपीडिताः।
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy