________________
श्रद्धानस्यपरमार्थसंस्तवरूपमाद्यं भेदमुक्त्वा द्वितीयं सुदृष्टिपरमार्थसंस्तवलक्षणं भेदं व्याचिख्यासुराह— गीयत्थचरित्तीण य, सेवा बहुमाणविणयपरिसुद्धा । तत्तावबोहजोगा, सम्मत्तं निम्मलं कुणइ ॥ १० ॥
व्याख्या गीयत्यत्ति, गीतं सूत्रं अर्थस्तद्विचारः, यदागमः - गीयं भन्नइ सुत्तं, अत्थो तस्सेव होह वक्खाणं । उमएण य सञ्जत्तो. सो गीयत्थो मुणेयब्बो ॥ १ ॥ तदुभयं विद्यते येषां ते गीतार्थाः सुज्ञातागमार्थाः, चारित्रं सर्वविरतिरूपं पृथिव्यादिजीवरक्षणात्सप्तदशभेदम्, यदागमः - पुढवी आऊतेउवा उवणस्सहतसाइअज्जीवे । हुप्पेपमज्जण - परिद्ववणमणोवईकाए ॥ १ ॥ अथवा, पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयवि - रतिश्चेति, संयमः सप्तदशभेदः ॥ १ ॥ तद्विद्यते येषां ते चरित्रिणः संयमयुक्ताः गीतार्थाश्च चारित्रिणश्च गीतार्थचारित्रिणस्तेषां च शब्दात्सम्यग्ज्ञानिनां सम्यग्दर्शनिनामपि, सेवत्ति, सेवा परिचरणा, किम्भूता ? 'बहुमानविनयपरिशुद्धा' तत्र बहुमानमन्तरङ्गा प्रीतिर्विनयो मनोवाक्कायैः प्रणमनं ताभ्यां परिशुद्धा निर्मलीकृता, अन्यथा वागुरिकनमनवत्सेवनं निष्फलं, ' तत्ताववोह 'त्ति, तत्वानां प्राक्प्रतिपादितखरूपाणां जीवानां (जीवादीनां ) योऽवबोधो यथावत्तया परिज्ञानं तस्य योगः सम्बन्धस्तस्मात्, 'सम्मत्तंति, सम्यक्त्वं सम्यग्दर्शनं 'निर्मल' आकाशस्फटिकमिव स्वच्छं करोति वित्त इति गाथार्थः ॥ १० ॥