________________
!
नाप्यनुमानेनाशनपराङ्मुखौ तौ वृषौ ज्ञात्वा भक्तप्रत्याख्यानं कारितौ, ताभ्यामपि शुभायतिभ्यां पथ्यमित्र तदङ्गीश्रेष्ठ्यपि परित्यक्तापरव्यापारः संसारासारतां प्रकटयन्नाराधनापुरस्सरं पञ्चपरमेष्ठिनमस्कारमहामत्रं तयोः श्रुतिपथपथिकतामनैषीत्, तावप्यमृतमिव तं निजकर्णपुटाभ्यां निपीय समाधिनाऽऽयुः परिपूर्य नागकुमारेषु देवत्वे| नोपपद्येतां, अथ कम्बलशम्बली नागकुमारावधिज्ञानेन बेडायामारूढस्य भगवतः श्रीवर्द्धमानस्य मिध्यादृष्टिना | सुदाढनागकुमारेण क्रियमाणं जीवितान्तोपद्रवं विज्ञाय जन्मकृत्यञ्च विमुच्य स्यादाजग्मतुः, तयोस्त्वेकः सुदादेन | सार्द्धं युद्धं चकार, द्वितीयस्तु भगवदधिष्ठितां नावं पद्मिनीमिव करसम्पुटेनोद्धृत्य सरित्परतीरमनैषीत्, ततो महर्षि। कोऽपि सुदाढनागकुमारोऽत्यन्तासन्न च्यवन समयगलद्वलस्ताभ्यां नूतनदेवाभ्यां निर्जितः शृगाल इव पायांचकार, तावपि कम्बलशम्बलौ नागकुमारी भगवतः श्रीमहावीरखामिन उपरि गन्धोदकपुष्पवृष्टिं विधाय भक्त्या तत्पादार - विन्दद्वन्द्वमभिवन्द्य च धाराहत कदम्बपुष्पवद्रोमाञ्चिताङ्गी स्वस्थानमगच्छतां तदनु जिनदास श्रेष्ट्यपि तयोर्नृपभयो - विपत्त्यनन्तरं विशिष्य शश्वदर्हदुक्तशास्त्र परिशीलनेन कतकफलक्षोदेनेवात्मानं जलमिव निर्मलीकृत्यावसाने समाधिपरः सदारः सुरपुरमलंचकार । इति यथा जिनदास उपासकः, समकरोत् परमार्थसुसंस्तवम् । कुरुत तद्वदिमं यदि वः स्पृहा, शिववधूपरिरम्भणकर्मणे । १ । परमार्थसंस्तवे जिनदासकथा |
कृतम्,