________________
S
HARE*
|ऽऽभीरी निग्धमधुरदधिभाण्डशिरस्का जिनदासावासमाससाद, साधुदास्यपि डिण्डीरपिण्डपरिपाण्डुरं दध्युपादाय सादरमाभीरीमुदीरयामास, सखि ! प्रत्यहमेवास्मद्गृहे दध्यानीय विक्रेतव्यं, दास्यामि तवेप्सितं द्रव्यं, तयाप्याभी-11 रिकयोपदेशवत्तद्वचः प्रतिपन्नं, ततः सा सततं दध्याद्यानयन्ती साधुदास्या वेषवारादिप्रदानेन सत्कृता सख्यमभजत् । यतः-दानेन सत्त्वानि वशीभवन्ति, दानेन वैराण्युपयान्ति नाशम् । परोऽपि बन्धुत्वमुपैति दानात्तस्माद्धि दानं सततं । प्रदेयम् । १ । अन्यदाऽऽभीर्या स्वसुताविवाहमहे सपत्नीको जिनदासो न्यमव्यत, तेनापि “क्षणमपि मम नास्त्यागमनावसर" इति निषिध्य मुधिकयैव विवाहोपयोगीनि वस्तूनि तस्मै ददिरे,तैर्वस्तुभिः सरङ्गः करग्रहमहः समजनि,साप्याभीरी खस्थानृण्यमभीप्सुर्निजपरिजनयुता त्रिहायणी गङ्गातरङ्गधवलौ कम्बलशम्बलनामानौ वृषभी श्रेष्टिने उपदीचकार, मास्म भून्मम नियमभङ्ग इति तेन निवारितापि सा तगृह कीलकेऽतौ वृषभौ निबध्य खधाम जगाम,श्रेष्ठ्यपि निजगृहागतस्तो तथास्थौ निरीक्ष्य क्षणं विषध चेति चिन्तयामास, यद्येतो मुञ्चामि तदा पामरनरप्रेरिताऽरुन्तुदतोदनप्रहारविधुरशरीरौ हलशकटवाहनव्यधामनुभविष्यतः, स्थापितौ तु मम नियमभङ्गाय भविष्यतः अतः, कथमहं तयाऽभीर्या | मूर्खलेहेन सङ्कटावटे पातितः, तथापीमावनुकम्पयातः परं परिपालनीयाविति विमृश्य श्रेष्ठी तौ वृषभौ प्रासुकतृणजलादिनाऽनुदिनं पुपोष, अथ पर्वतिथिषु कृतोपवासं गृहीतपौषधं पठितधर्मशास्त्रपुस्तकवाचनपरं जिनदासं दृष्ट्वा ।
१ समुद्रफेण,
*
*