________________
ke
केवलसंसारियाण तिगजोगी। चउजोगजुयं चउसुवि, गईसु मणुयाण पण जोगो ६ ॥ अल्पबहुत्वं तु परम्परापेक्षया । |सविशेषा प्रतिपत्तिर्यथा-सङ्ख्याता मनुष्यातेभ्योऽसङ्ख-यातगुणा नैरयिकाः तेभ्यः सविशेषा देवाः तेभ्योऽनन्तगुणास्तियश्च इति ८ । एतैः सप्तभिः सदादिभिः पदैर्बुद्धानां ज्ञातानामपि जीवादिपदार्थानां पुनः पुनः श्रवणमाकर्णनं चिन्तनं पर्यालोचनं संस्तवो भवतीति गावार्थः ॥ १ ॥ ___ अस्मिन् विषये जिनदासश्रावकदृष्टान्तः प्रतन्यते, तथाहि, । इहैव जम्बूद्वीपे द्वीपे निवासिजनजनितहर्षप्रकर्षे श्रीभारते व समस्ति समस्तवस्तुविस्तारमधुरा मथुरा नाम नगरी, यस्यां मनुष्यश्रुतिसीख्यकारिविरावभृद्धंसकभासमाना समुल्लसत्पीनपयोधरान्तःसस्त्रीराजिराभातिवहिनीव । तस्यामनवरतसुगुरुवदननिर्यदमृतायमानविशुद्धसिद्धान्तदेशनाश्रवणसातजिनशासनदृढवासो जिनदासो नाम श्रापकः । प्रतियसति स्म, यस्य मानससरोवरमध्ये गुर्वपूर्वतरभक्तितरङ्गे सद्विचारचतुरः शुचिपक्षः खेलनं स्म तनुते जिनहंसः। तस्य निरन्तरदेवगुरुचरणपरिचरणसमुपार्जितागण्यपुण्यनिवासीभूता समासीत्साधुदासी नाम प्रेयसी, 'श्रीमजिनाज्ञासुदशासनाथे, पुण्यक्रियास्नेहभराभिरामे । यच्छीललीलायितदीप्रदीपे, पतङ्गपोतायितमाप मारः । १।। एकदा ताभ्यां सद्गुरुपादमूले सम्यक्त्वमूलानि द्वादश प्रतानि वीकुर्वद्भयां सावधभीरुतया सर्वथा चतुष्पदपरिग्रह-12 परिहाररूपोऽभिग्रहो जगृहे, तश्च निरतीचारप्रतिपालयद्भ्यां ताभ्यां सुखेन समयोऽतिबाह्यते स्म, कदाचित्काचिदेका
-
-