SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ गइ इन्दिए य काय, जोर वेए कसायनाणे य । संजमदसंणलेसा, भवसंमे सन्निहारे ॥ १ ॥ इतिचतुर्दशमार्गणास्थानानि तैः सत्पदप्ररूपणा सामान्यविशेषाभ्यां द्विधा - सामान्येन जीवो मिथ्यादृष्टिः साखादनादिमान्वेत्यादि, विशेषेण तु गत्याद्यपेक्षया निगद्यते, तथाहि — देवनरकगत्योराद्यानि चत्वारि गुणस्थानकानि, तिर्यग्गतौ पञ्च, मनुष्यगतौ चतुर्द्दशापि १ । इन्द्रियाद्यपेक्षया एकद्वित्रिचतुरिन्द्रियेष्वाद्यं द्वितीयमपि गुणस्थानं, पञ्चेन्द्रियेषु चतुर्द्दशापि २ | कायापेक्षया, पृथिव्यप्तेजोवायुवनस्पतिकायेष्वाद्यं, तेजोवायुवर्जमितरेषु द्वितीयमपि, त्रसेषु सर्वाणि ३ । योगापेक्षया मनोवाक्काययोगेषु त्रयोदश गुणस्थानानि, न चतुर्द्दशं, तस्य निरुद्धयोगत्वादयोगित्वम् ४ । वेदापेक्षया पुंस्त्रीनपुंसक वेदेष्वाद्यानि नव गुणस्थानकानि, अतः अग्रेतनान्यवेदकानि ५ । कषायापेक्षया क्रोधमानमायासु नव गुणस्थानकानि, लोभे दश, ततोऽप्रेतनान्यकषायाणि ६ । ज्ञानापेक्षया मत्यज्ञानश्रुताज्ञानविभङ्गेष्वाद्ये द्वे गुणस्थाने त्रीणिवा, मतिश्रुतावधिज्ञानेष्वविरतिसम्यग्दृष्ट्यादीनि क्षीणकषायान्तानि नव, मनःपर्यायज्ञाने प्रमत्तादीनि क्षीणकषायान्तानि सप्त, केवलज्ञाने प्रान्ते द्वे ७ । संयमापेक्षया सामायिकच्छेदोपस्थाप्ययोः प्रमत्तादीनि चत्वारि, गुणस्थानानि, परिहारविशुद्ध प्रमत्ताप्रमत्ते द्वे, सूक्ष्मसम्पराये सूक्ष्मसम्परायमेकं यथाख्याते उपशान्तादीनि चत्वारि देशविरतौ देशविरतिस्थानमेकं, अविरतौ मिथ्यादृष्ट्यादीनि चत्वारि ८ । दर्शनापेक्षया, चक्षुरचक्षुर्दर्शनयोरायानि द्वादश गुणस्थानकानि अवधिदर्शनेऽविरतादीनि नव, केवलदर्शने प्रान्ये द्वे ९ ।
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy