________________
परमत्थसन्थवो खलु, सुमुणियपरमत्थजइजणनिसेवा । वावन्नकुदिट्ठीण य, वजणमिह चउहसदहणं ८
व्याख्या 'परमत्यत्ति, (त्थेत्यादि ) 'खलु' निश्चितं परमार्थस्य परमरहस्यस्य संस्तवः परिचय इत्येको भेदः, २ | 'सुमुणिय'त्ति ( येत्यादि) सुज्ञातपरमार्थानां यतिजनानामहन्मुनीनां सेवनं पर्युपातिकरणमिति द्वितीयो भेदः, यावन्नत्ति (न्नेत्यादि ) व्यापन्नाश्च कुदृष्टयश्च व्यापन्नकुदृष्टयस्तेषां वर्जनं, कोऽर्थः ? परिच्युतसम्यक्त्वानां मिथ्यादृशां च परित्याग इति तृतीयचतुर्थों भेदौ । 'चः' समुचये 'इह' अत्र ग्रन्थे चतुष्प्रकारं श्रद्धानं भवतीति गाथार्थः ॥ ८॥ M तस्यैव श्रद्धानस्य परमार्थसंस्तवरूपं प्रथमं भेदं विवृण्वन्नाहजीवाइपयस्थाणं, सन्तपयाईहिं सत्तहिं परहि। बुद्धाणवि पुण पुण सवणचिन्तणं सन्धवो होई ॥९॥
व्याख्या-'जीव'त्ति जीवन्ति प्राणान् धारयन्तीति जीवाः, सर्ववक्तव्यमूलत्वात्तेषां प्रथमोपादानमिति, आदिशब्दादजीवपुण्यपापाश्रवसंबरवन्धमोक्षपरिग्रहः, तेषां पदार्थानां तत्त्वानां परिज्ञानं, कथं स्यादित्याह, 'सन्तपयाईहिन्ति' सत्पदादिभिः सत्सङ्खयाक्षेत्रस्पर्शकालान्तरमावाल्पवहुत्वभेदैः सप्तभिः पदैः, तेषां सत्पदादीनां प्ररूपणा चैषा,-18 जीवाइपयत्थाणं, गुणठाणेसु पवमाणाणम् । चउदसमग्गणट्ठाणपरूवणा सन्तपयमाई ॥ १ ॥ तथाहियद्यपि सच्छब्दः प्रशंसादिषु वर्तते तथाप्यत्रास्तित्ववाचक उपादीयते, अतः सन्ति जीवाद्याः पदार्या गुणस्थानकेषु । चतुर्दशसु मिथ्यादृष्टयाधयोगिपर्यन्तेषु वर्तमानत्वात् , अत्रापि तेषां सत्त्वं मार्गणास्थानैरभिव्यज्यते । तानि चामूनि
SEH