________________
ययौ ॥ ४०३ || इत्यारामसुतस्य चरित्रम् । श्रुत्वा भव्यजना ! अतिचित्रं । सम्यक्त्वं स्वीकुरुत नितान्तं, येन प्रभुत
मङ्क्षु भवान्तम् ॥ ४०४ ॥
इति सम्यक्त्वे आरामनन्दनकथा सम्पूर्णा ॥
उक्तं सम्यक्त्वस्वरूपमथ तच्छुद्धिमाह
तस्स विसुद्धिनिमित्तं, नाऊणं सन्तसहिठाणाई । पालिज परिहरिजव, जहारिहं इत्थ गाहाओ ॥ ४ ॥
'तस्स 'ति तस्य सम्यक्त्वस्य प्रान्वर्गित सरूपत्य विशुद्धिनिमित्त' वैशद्यसम्पादनाय, पुरोवक्ष्यमाणानि श्रद्धादीनि सप्तषष्टिस्थानानि, 'ज्ञात्वा' सम्यगवबुध्य 'पालयेत्' सेवेत, न केवलं पालयेत् 'परिहरेद्वा' त्यजेत् कथं ? 'यथार्हे' श्र | दानादिसेवनेन शङ्कादिदोषपरिहारेणेति, अतः 'अ' अर्थे पूर्वसूरिकृते सप्तषष्टिभेदसूचिके इमे गाथे, अत्र यद् द्विवचनस्य स्थाने बहुवचनं तन्न दोषाय, प्राकृतत्वात् उक्तञ्च - बहुवयणेण दुवयणं छट्ठिविभत्तीइ भन्नइ चउत्थी । जह हत्था तह पाया, नमुत्थु देवाहिदेवाणं ॥ १ ॥ इति गाथार्थः ॥ ४ ॥
तेच के द्वारगाथे ? इत्याह----
चउसद्दहणतिलिङ्गं, दसविणयति सुद्धिपञ्चगयदोसं । अट्टपभावण भूसण - लक्खणपञ्च विहसंजुत्तं ॥ ५ ॥ छव्विहजयणागार, छभावणाभावियञ्च छट्टाणं । इह सत्तसद्दिलक्खण-भेयविसुद्धं च सम्मतं ॥ ६ ॥