SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ | दोपेण सर्वतः । अतोऽस्य भावि कीनाशसरणं शरणं किल ॥ ३८९ ॥ इति तद्वाक्यमाकामूर्छत्पद्मावती शुचा । वनजः साहसं धृत्वा, मात्रिक माह पृच्छ भो ! ॥ ३९० ॥ सुतः केनाप्युपायेन, जीवत्येषो ऽथवा नहि ? || तेनापि कन्यापक्रेण, पृष्टा देवीस्यवोचत ॥ ३९१ ॥ शिशुरस्मान्महादोपान्मुच्यते यदि हि स्वयम् । वनसूनुः पद्यक्ष-13 मर्चयेदन्यथा मृतिः ॥ ३९२ ॥ तच्छुत्वा वनजोऽवादीत्सम्यक्त्वस्थैर्यमन्दरः । जीवान्तेऽपि न कुर्वेऽहमन्यदैवतपूजनम् ॥ ३९३ ॥ शरीरी नियमाणस्तु, पूर्ववद्धायुषः क्षयात् । रक्ष्यते नैव भूपालैन देवैर्न च दानवैः ॥ ३९४ ॥ असम्पूर्णायुरेपोऽपि, रोगदोषशतैरपि । वनपअरमध्यस्थ, इव नो म्रियते क्वचित् ॥ ३९५ ॥ प्राणेभ्योऽप्यधिकस्यास्य, हितं स्यादथवाऽहितम् । तथापि जातु सम्यक्त्वमालिन्यं न करोम्यहम् ॥ ३९६ ॥ अहंतःसुगुरूंश्चैव, मुक्त्वा साध|र्मिकांस्तथा । नमयामि न मूर्धानमन्येषामिति निश्चयः ॥ ३९७ ॥ एकसिंतु भवे पुत्रा, भवन्ति सुखदा न वा। भवे भवे भवेत् सम्यग-दृष्टिः श्रेयस्करी नृणाम् ॥ ३९८ ॥ अतस्त्वं मात्रिक श्रेष्ठ ! श्राग्विसर्जय मण्डलम् । यद्यस्य । विपुलं वायुस्तदा प्राणिष्यति खयम् ॥ ३९९ ॥ इति तेनोदिते यावन् , मात्रिको मण्डलं किल । विस्रष्टुमलगत्तावत्सा सुरी प्रकटाऽभवत् ॥ ४०० ॥ ऊचे च वनसूनो? स्वं, धन्योऽस्तन्मया कृतम् । त्वत्सम्यक्त्वपरीक्षार्थ, निरुगेवास्ति ते सुतः ॥ ४०१ ॥ इत्युक्त्वा सा तिरोभूता, पूर्णकुम्भोऽपि निर्गतः। प्रेयसीभिः समं भोगान् , भुआनः कालमत्यगात् ।। ४०२ ॥ बनसूरपि सम्यक्त्वं, प्रपाल्य गतदूषणम् । सम्पूर्णायुः शुभध्यानः, सप्रियखिदियं । KAROKAR २. *
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy