________________
यदाभ्यां विरहादत्ता, शम्पा ज्वालाकुलेऽनले ।। ३६० ॥ प्रमोदमेदुरान् दृष्ट्वा, खजनांस्तस्य सङ्गमात् । गतरोपे खचारिण्यावौचित्यादेत्य सन्निधौ ॥ ३६१ ॥ पुष्पकञ्चकमानाय्य, भृत्येभ्यः कमलावतीम् । पर्यधापयतां दिव्यामोदनन्दितनासिकम् ॥ ३६२ ॥ युग्मम् । बेतालखेचरीवर्ग-राजस्वजनसंयुतः । वनजो गजमारूढः, सोत्सवं खगृहेऽविशत् ॥ ३६३ ॥ रत्नभूषणदानेन, सत्कृत्य पृथिवीपतिम् । देवदूष्योपमैौः , सन्तोष्य स्वपरिच्छदम् ॥ ३६४ ॥ योजितालिबन्धेन, खेचर्यो प्रणिपत्य ते । याचकान् पोषयित्वा च, वनसूनुर्व्यसर्जयत् ॥ ३६५ ॥ युग्मम् । वेतालादपि सौवर्ण-नरमानाय्य मन्दिरे । न्यासीकृत्य च भक्त्या तं, विससर्ज यनात्मजः ॥ ३६६ ॥ स ततः लानमासूत्र्याहद्विम्बानि प्रपूज्य च । दानं दत्वा सुपात्रेभ्यो, बुभुजे स्वजनैः समम् ॥ ३६७ ॥ परीक्षितखपुण्योऽयं, दृष्टकान्सासतीव्रतः । उद्याननन्दनोऽकात्सिफलां गृहमेधिताम् ॥ ३६८ ॥ अथान्येद्यविरुद्याने, सचक्रप्रतिबोधकृत् । केपल-| ज्ञानभृद् ज्ञान-भानुर्भानुरिवाऽऽययौ ॥ ३६९ ॥ श्रुत्वा तदागमं पद्मावतीयुक्तो वनात्मभूः । गत्वा केवलिनं भक्त्या, नत्वा चोपाविशत्पुरः ॥ ३७० ॥ सर्वजीवहितां धर्म-देशनां मुनिपुङ्गवः । प्रारेभे रभसा मुक्ति-प्रेयसीतिकामिव | M॥ ३७१ ॥ सर्वेषां धर्मकृत्यानां, मूलं सम्यक्त्वमुच्यते । तच देवे गुरौ तत्त्वे, सम्यश्रद्धानतो भवेत् ॥ ३७२ ॥ देवो
ऽष्टादशदोपाणां, हग कर्ता शिवश्रियाम् । निरवद्यक्रियाज्ञान-धरो गुरुरुदाइतः ॥ ३७३ ॥ तत्त्वं तद्येन जायेत, भूतेषु समतामतिः । इति सद्दर्शनं जीवा, लभन्ते कर्मलाघवात् ॥ ३७४ ॥ ततः श्रावस साधोय, धर्ममाराध्य