SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ व्यलोक्यत ॥ ३४५ ॥ ततो जजल्पतुर्विद्या - घर्यौ साधर्यमानसे । कञ्जकं केकिनं मुक्त्वा, चौरः किमकरोदिदम् | ॥ ३४६ ॥ वेतालोऽप्यब्रवीद्युद्धा, यदर्थे क्लेशमासदम् । प्राणप्रियः सखा सोऽयं, वह्नावहाय हाऽविशत् ॥ ३४७ ॥ आगच्छतश्चिताभ्यर्णे, प्रेक्ष्य वेतालखेचरान् । दूरीभूय स्थिता लोकाः, किमेतदिति ? सम्भ्रमात् ॥ ३४८ ॥ चतुरङ्गचमूयुक्तो, योद्धुकामो नृपोऽपि हि । वैतालखेचरानीहारिमुखं वेगवोऽचरत् ॥ ३४९ ॥ अथ विद्याधरीसैन्यं, तां चितां परितो भ्रमत् । अग्रहीत्कञ्चकं दारु-मयूरं च महीस्थितम् ॥ ३५० ॥ अस्मद्भियान्यहेतोर्वा प्राविशत्तस्करश्विताम् । इतीव यावत्तां द्रष्टुं लभे ते खेचरप्रिये ॥ ३५१ ॥ तावद्वनभुवं तत्र, प्रियापद्मात्रतीयुतम् । अक्षता निरीक्ष्योभे, खेचर्याविदमूचतुः || ३५२ ॥ अहो अहो प्रविष्टोऽपि यदेषोऽमी सवल्लभः । स्वर्णासने स्थितो हंसयुग्मवद्राजतेऽम्बुजे ॥ ३५३ ॥ तयोरिति गिरः श्रुत्वा, कौतुकोत्तानमानसाः । बेतालः खेचरा राजा, स्वजनाश्च | समीयरुः ॥ ३५४ ॥ अहो पद्मावतीशीलमाहात्म्यं यदियं चिता । प्रज्वलज्ज्वलनज्वाला, जालाप्यजनि शीतला || ३५५ ॥ इति वदिष्विवैतेषु जल्पत्सु यनसुस्ततः । निर्गत्य सप्रियः पृथ्वी - पतिं जोदकरोन्मुदा ॥ ३५६ ॥ | राज्ञाऽप्याश्लिष्य स स्नेहात्पृष्टोऽथ वननन्दनः । सर्व कक्षुकवृत्तान्तं यथावत्प्रत्यपीपदत् ॥ ३५७ ॥ पितृभ्यां खजनैवायं परिरभ्याभ्यनन्द्यत । वत्से ! पुत्रवती भूया, इति पद्मावती तथा ॥ ३५८ ॥ ज्ञात्वा कञ्जकवृत्तान्तमथ विद्याधरप्रिये । मुक्त्वा च तस्मिन्निर्वन्धमिति चेतसि दध्यतुः ॥ ३५९ ॥ दम्पत्योरनयोः प्रीतिरहो !! कापि परस्परम् ।
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy