________________
%
-%
कामिनी ॥ ३३० ॥ तन्मन्य तव जीवेशा, भविष्यतितमामसौ । अतो व्रज रयात्तत्र ! पृष्ठरक्षोऽस्म्यहं ननु ॥३३१॥ वेतालबचसा तेन, वामाक्षिस्फुरणेन च । ज्ञातप्राणेश्वरीमृत्युस्ततो वनसुतोऽचलत् ॥ ३३२ ॥ अथ पद्मावती कान्ता, कान्तागमनवासरान् । प्रपूर्य नर्मदातीरे, नृपमूचे कृताञ्जलिः ॥ ३३३ ॥ वारितापि खवग्र्मेण, नास्था यान्ती चितां प्रति । कपिना शुद्धिमानाय्ये यश्चिरं स्थापिता त्वया ॥ ३३४ ॥ अवधौ परिपूर्णेऽपि, यन्नागान् मम वल्लभः ।। तद्वेश्यमङ्गलं तस्य, सत्यसन्धो यतोऽस्ति सः ॥ ३३५ ॥ अतो मामनुजानीहि, चितालिङ्गनकर्मणि । इत्युक्त्वा | सा महीपालं, मुत्कलाप्यागमगृहम् ॥ ३३६ ॥ ततः सोभयपक्षं सानुज्ञाप्याभ्यर्च्य देवताः। वितीर्य दानं दीनेभ्यो, अनुकूल्य सखीजनम् ॥ ३३७ ॥ अनुमोद्य कृतं पुण्यं, गर्हितं दुष्कृतं तथा । लोके क्रन्दति हा हेति, चचालाशु चितां प्रति ॥ ३३८ ॥ पश्यतां सर्वलोकानां, स्मृत्वा पञ्चनमस्कृतिम् । सा स्ववर्गाशु(श्रु)भिः सार्द्धमदाज्झम्पां चितानले ॥ ३३९ ॥ अथोद्यानसुतो वेगादागतो नर्मदातटे । धूमव्याप्तं नमो ऽपश्यधितां च ज्वलदमिकाम् ।। ३४० ॥ प्रदतः खजनांस्तत्र, वीक्ष्यासावित्यचिन्तयत् । वह्नौ प्रियाऽपतत् खत्रे, मनोरथरयश्च मे ॥ ३४१ ॥ ततो मयूरादुत्तीर्योपांशु मुक्त्वा च कभुकम् । कान्ताचितासमीपस्थो, यनसूरित्यभाषत ॥ ३४२ ॥ सतीव्रतधरा मेऽस्ति, यद्येषा प्राण-2 वल्लभा । तदैतस्यां ममापि स्वादाशु श्रेयः परम्परा ॥ ३४३ ॥ इत्युदीर्य प्रियामृत्युपापव्ययकृते कृती । सोऽज्ञातः खजनैम्पिापातं वैश्वानरेऽकरोत् ॥ ३४४ ॥ अथानुगैयुध्यमानैर्विद्याधरभटैर्मियः । वेतालसुभटेश्चाऽपि, तथास्थः स