________________
मुक्त्वा कृत्वा च पूरक्षां, जेतुं यामो रिपोर्बलम् ॥ ३०९ ॥ तथैवासूत्र्य सर्वाभि - सारसारः स निर्ययौ । ततः शित्रि|रयोर्जज्ञे, नामग्राहं महारणः || ३०२ ॥ युध्यमानाः कपिभटा, दन्तादन्ति नखानखि । केपि पेतुर्महीपीठे, कुठारच्छिन्नवृक्षवत् ॥ ३०३ ॥ केचित्स्ववीर्यपेटाभिश्चपेटाभिः क्रुधोद्धुराः । आहत्याहत्य पाणि, नीरदानि वितेनिरे ॥ ३०४ || केचनापि शिलागोलेवेवेन्तो दुष्टमेधवत् । अन्योऽन्यस्य शरीराणि चूर्णयांचक्रिरेतराम् ॥ ३०५ ॥ एवं समरसंरम्भं तन्वन्तः कपयो मिथः । काकनाशं भृशं नेशुः, स्थैर्ये हि स्यात् क्व ताशाम् १ || ३०६ ॥ अथोटान्मटान् खान् खान्, नष्टानालोक्य तौ रुषा । अन्योन्यकालनीलास्यौ, चक्रतुर्दारुणं रणम् ॥ ३०७ ॥ निर्जितो नीलवक्रेण, कालवक्रः कपीश्वरः । ननाश प्रतिकूले हि, विधौ कस्य भवेज्जयः १ ॥ ३०८ ॥ इतश्वारामजन्माऽपि, जग्मिवांस्तत्र यत्र तैः । कपिभिः स्थापिता आसन्नभोगाः काष्टकेकिनः ॥ ३०९ ॥ तेष्वेकं केकिनं वेगादारुयाऽऽरामनन्दनः । कीलिकामर्मवित् प्राप, वैताढ्ये मङ्गलावतीम् ॥ ३१० ॥ कुतोऽपि विद्युन्माल्योकस्तुर्यायनि गवाक्षके । स्वर्णतल्पस्थितं पुष्प - ककं वगत्य सः ॥ ३११ ॥ आदाय च ततो राज - कुलाध्यक्षमदोऽयदत् । हंहो वनभुवा स्त्रीय, एवायं नीयतेऽधुना ॥ ३१२ ॥ युग्मम् । एवमुचैः स्वरं वारं वारं जल्पन् पुराद्वहिः । विनिर्गत्य स वानेयः, प्रतस्थे खपुरं प्रति ॥ ३१३ ॥ कचित्पुमान् गृहेऽभ्येत्य, गृहीत्वा पुष्पकझुकम् । मयूरवाहनारूढो, हहा याति विहायसि ॥ ३१४ ॥ इत्याकर्ण्य तडिन्मालिप्रिये सुप्रियकक्षुके । सोरस्ताडं निजान् भृत्यानूचतुर्धायताशु भोः !
1