SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ - - 52%BHERANASIA* यतः प्रिया वियोगान्मे, चितारूढा भविष्यति । न स्यादतर्कितखप्नदर्शनं हि कचिन्मृषा ॥ २१५ ॥ अतोऽहं दयिता-18 हत्यापातकी क्वापि पर्वते । गृहीत्वाऽनशनं प्राणान्मुञ्चेयं दुर्जनानिव ॥ २१६ ।। इति सञ्चित्य चित्तेऽसौ, सागरं । मुत्कलाप्य च । गतोऽद्रिं तदधो भूमिभागे योगिनमैक्षत ॥२१७॥ आरामसूस्तदभ्यर्ण, ययौ सोऽपि हि योगिराट् ।। सर्वलक्षणपूर्णोऽयमिति तत्संमुखं ययौ ॥२१८ ॥ मुञ्चन्नश्रूणि सान्द्राणि, स्नेहादिव जगाद च । भद्र! त्वमन्त्र मद्भाग्यैः,8 समाकृष्ट इवागमः ॥ २१९ ॥ सिद्धक्षेत्रेऽत्र मत्रस्य, पूर्वसेवा मया कृता । सत्त्वाधिकनराप्राप्त्या, नारन्धोत्तरसेविका ॥ २२० ॥ अतः पुरुषरन ! त्वां, याचे याचकवत्सलम् । मम साधयतो विद्या, साहाय्याय यतख भोः! ॥ २२१ ॥ इति तेनार्थितो दध्यौ, स खान्ते योगिनो ऽस्य हि । विद्यां साधयतो भूत-वेतालादिसमुद्भवम् ॥ २२२ ॥ विनादि रक्षतोऽवश्यं, मम मृत्युमनोरथः । अनायासेन भविता, परिपूर्णो न संशयः ॥ २२३ ॥ युग्मम् । इति सञ्चित्य, तद्वाक्ये, पनजेन प्रतिश्रुते । योगी हर्षपयोराशि-कृतस्त्रान इवाभवत् ॥ २२४ ॥ आदिदेश च भूतो वा, प्रेतो या राक्षसोऽथवा । मन्त्रविनकृदागच्छंस्त्वया वार्योऽत्र सात्विके ॥२२५॥ ततः स होमप्रायोग्य-वस्तून्यानाय्य वेगतः ।। खदिराङ्गारसम्पूर्ण, कुण्डमुण्डमकारयत् ॥ २२६ ॥ तत्र मण्डलमापूर्य, तं कृत्वोत्तरसाधकम् । सारं सारं तथा| मनमाहुतीर्योग्यदान्मुदा ॥ २२७ ॥ क्षुब्धाया मन्त्रदेव्याः प्रार, भूतवेतालराक्षसाः । अट्टाहासं कुर्वन्तः, प्रादुरासन् दिशो दिशः ॥ २२८ ॥ तेष्येकः सहजोत्तालो, वेतालो बननन्दनम् । उपेत्याख्यदरे दुष्ट ११, दृष्टोऽसि कनु यास्यसि **% A SA
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy