________________
स्थापनानि च । सोत्सवं कारयन् स खजन्मसाफल्यमातनोत् ॥ २०१ ॥ अन्यदा यामिनीयामयामले वननन्दनः । शयनीये सुखं सुसो, ददर्श खनमीदृशम् ॥ २०२ ॥ लक्ष्मीपुरे नर्मदायास्तीरे चन्दनदारुभिः । पद्मावती स्वभृत्येभ्यश्चितां शीत्रमचीकरत् ॥ २०३ ॥ ततः सा स्नानमासूत्र्य, प्रासुकैनमदाजलः । पूजयित्वा जिनेन्द्रांश्च, तस्याः पार्श्वे समीयुषी ॥ २०४ ॥ ऊचे च वारितं जैनैर्यद्यप्यभिप्रवेशनम् । तथाप्यहं वियोगार्त्ता, प्रवेक्ष्याम्याशुशुक्षणिं ॥ २०५ ॥ यतो मया दुष्टबुद्ध्या, कदाप्रहगृहीतया । हठात्प्रियतमः प्रेषि, पुष्कलुककाङ्क्षया ॥ २०६ ॥ यदसौ नागतोऽद्यापि, तज्जानेऽस्य शुभं न हि । यतः क्षणमपि स्वामी, न जीवति स मां विना ॥ २०७ ॥ साध्वीमपि विना पत्या, लोका अपवदन्ति हि । सभर्तृकां पुनर्नारीं मन्यन्तेऽत्रामरीमिव ॥ २०८ ॥ अतो विशाम्यहं वही, दुःखिता मृत्यवे - ऽधुना । इत्युदीर्य स्खवर्गेभ्यः, सा चचाल चितां प्रति ॥ २०९ ॥ इति साक्षादिव प्रेक्ष्य, वनस्रुत्थितोऽवदत् प्रिये ! मयि पुरस्थे (स्थे ) ऽदः, कर्तुं युक्तं न साहसम् ॥ २१० ॥ तच्छ्रुत्वा सहसा तस्योत्तस्थौ परिजनोऽपि हि । किमिदं १ किमिदं १ स्वामिनिति भ्रान्तः स्म वक्ति च ॥ २११ ॥ रेरे भृत्या यात याताऽऽनयतात्राशु - मात्रिकान् । इति जल्पपरे श्रेष्ठिना (न्या) ससंज्ञः स तानवक् ॥ २१२ ॥ साध्यं किं मात्रिरत्र, गात्रं तु पटु मेऽस्ति भोः । यदुच्चैर्व्यलपं तब, स्वप्नावेशविजृम्भितम् ॥ २१३ ॥ एवं खव सन्तोष्य, सोऽध्यायदधुना मम । प्रसूनकञ्चुकादानतृष्णापि विलयं गता ॥ २१४ ॥
।
१ वहिं.