SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ व्याख्या-'निर्वाणं' मोक्ष इति सम्बन्धः, तत्खरूपमाह-'अक्षयपदं' एकसिद्धापेक्षया साधनन्तं, सर्वसिद्धापे. क्षयाऽनाद्यनन्तं, सिद्धानां पतनाभावान्न पुनः संसारावतारः, एतावता-"ज्ञानिनो धर्मतीर्थस्स, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भयं तीधैनिकारतः ॥ १॥" इति वादिनः सौगता निरस्ताः अतो युक्तमक्षयपदमिति । 1४/पदोपादानं, पुनः कीदृशम् -निरुपमम्-उपमानवर्जितम् , 'इक्षुक्षीरगुडादीनां,माधुर्यखान्तरं महदि तिन्यायात्केवलि-18 नामपि वक्तुमशक्यं यत्सुखं-सातं तेन संगतं-मिलितमनन्तसुखात्मकत्वाम्मोक्षस्पेति । नन्वशरीरस्य नष्टकर्माष्टकस्य । सिद्धस्य कुतः सुखसम्भवो भवति ? इति, अत्रोच्यते याचकप्रणीतवचः-लोके चतुर्विहार्थेषु, सुखशब्दः प्रवर्तते विषये । वेदनाभावे,विपाके मोक्ष एव च॥१॥सुखो वह्निः सुखोवायुर्विषयेष्विह कथ्यते । दुःखाभाये च पुरुषः, सुखितोऽस्मीति मन्यते ॥२॥ पुण्यकर्मविपाकाच्च, सुखमिष्टेन्द्रियार्थजम्। कर्मक्लेशविभेदाच,मोक्षे सुखमनुत्तमम् ॥३॥ अत एव 'शिवम्' अनुपद्रवं, पुनः किंभूतम् ?–'अरुज' शरीराभावादष्टाधिकशतरोगसंभवाभावाच गदरहितं, तच कथं ज्ञायत इत्याह'जियराग'त्ति 'जितरागद्वेषमोहै।' जितो रागो द्वेषो मोहश्च यैस्ते जितरागद्वेषमोहाः, यतः-"रागोऽङ्गनासङ्गमनानुमेयो, द्वषो द्विपदारणहतिगम्यः । मोहः कुत्तागमदोषसाध्यो, नो यस्य देवः स स चैवर्महन् ॥१॥" तैः 'भाषित पूर्वापराविरुद्धतया कथितं, न विप्रतारकवचनम्नायं, तस्मात् 'ध्रुवं' निश्चितम् अस्ति मोक्षो भव्यजीवस्येत्यध्याहारः। एवं ज्ञाततत्त्वस्य पञ्चमं मोक्षः स्थानं स्यादिति गाथार्थः ॥ ६ ॥ अथ षष्ठं मोक्षोपायाख्यं स्थानमाह
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy