________________
तस्मै, दत्वा भण्डपिकामगात् ॥ १५५॥ तत्र पञ्चकुलायैष, दत्वा च्छगणपञ्चकम् । हसद्भिर्वेष्टितः पौस्थिोत्तो गानृपान्तिकम् ॥१५६ ॥ दृष्ट्वाऽऽयान्तं पुरायाता, इभ्या व्यज्ञपयनृपम् । अहो वाणिज्यचातुर्य, पश्यारामभुवो के विभो! ॥१५७ ॥ चङ्गेरी मोचयित्वाने, धराधीशं ननाम सः । तदापितासने सिंह, इवोपविशति स्म च ॥ १५८॥ मौक्तिकादीनि वस्तूनि, ढौकितानि धनेश्वरैः । पश्यन् महीपतिदृष्टिं, छगणस्थानके न्यधात् ॥ १५९ ॥ आश्चर्यामर्ष|वान् भूपो, बभाष भो ममाग्रतः। यणिजा केन दुष्प्रापमुपायनमिदं धृतम् ? ॥ १६० ॥ कृताञ्जलि प्रतीहारः, प्रोचे वन|भुवाऽमुना । तच दृष्ट्वाऽस्मरद्राजा, तन्मतिं दन्तिरक्षिकाम् ॥ १६१ ॥ निरर्थकं न चेष्टेत, मतिमानीरशो जनः । इति - ध्यात्वा नृपः पाणावेकं छगणमाददे ॥ १६२ ॥ तदारामसुते इष्टेऽन्येषु स्मितमुखेषु च । खण्डिताच्छगणादाविर्भूतं रत्नं नृपोऽगृहीत् ॥ १६३॥ अन्यान्यपि द्विधाकृत्य, नृरनं रत्नसञ्चयम् । आददानो मुदं भेजे, खेदं च हसकृजनः ॥१६४॥ रलोद्योतेऽपि सर्वत्र, भूतले प्रसृते सति । सांयात्रिकजनश्चित्रमजायत तमोमयः ॥१६५॥ प्रमोदवानयो नाथोऽपृच्छत्तं खागतं तव ?।सोऽपि स्माह महाराज! तदस्ति त्वत्प्रसत्तितः ॥१६६॥ राजा पप्रच्छ कि सर्वमपि पण्यं तवेदशम् ? । आमेत्युक्त्वा स आरक्षादिभ्यछगणमानयत् ।। १६७॥ वणिजां हृदयानीव, विभेद्य च्छगणानि सः । नानि दर्शयित्वा च, नृपमेवमवोचत ॥ १६८ ॥ कृत्वा प्रसादं भूपालवेलाकुलमहीतलम् । सनाथीक्रियतामस्मन्मनः सन्तुटिपुष्टये ॥ १६९ ॥ तदुक्तिरञ्जितो राजा, सांयात्रिकजनैः सह । पट्टवाजिनमारुह्य, बेलाकूलं रयादयात् ॥ १७ ॥