________________
सापि तन्निशम्य शङ्कापि धामवलम्ब्य स्माह-वत्स ! तस्याः पापाया नामापि मा गृहाण, यदसौ त्वयि प्रस्थिते कुतकुलकलङ्का प्रादुर्भूतगभी भवनानिवासि, तदनामाकर्ण्य हा ऐति शब्दमुचैरुच्चरन् सागरो मुमूर्च्छ, परिकरकृतैः शिशिरोपचारैः कथमपि विगतमूच्छ हे कृशाङ्गि ! यत्त्वया प्रोकेनापि मया पित्रोरथे न निजागमनं न्यवेदि तदामरणं मे मनो दहिष्यतीति पुनः पुनर्विलपन्मातरमाह स्म-मातर्मन्नामाङ्कितं चिरपरिचितमप्यङ्गुलीयकं विलोक्य कथं सा महासती निर्वासिता ?, अथवा कुपतिस्तुष्टो रुष्टो वा मारयतीति विचिन्त्य हे वनदेवतास्तां मम प्राणप्रियां पितृश्वशुरकुलनिर्वासितां सतीव्रतभृतां रक्षत रक्षत, हा सा शून्येऽरण्ये गर्भभरालसाङ्गी कथं भविष्यतीति प्रलपन् स पितृश्वशुरवर्ग रोदसीपूरं रोदयामास ततः स गोत्रवृद्धैर्भवभावना खरूपैर्बोध्यमानोऽपि, शुचं नामुचदचिन्तयच्च यावन्मृगाङ्गलेखां दशा न पश्यामि तावत् वर्षसहस्रेणापि न गृहमा गच्छामीति प्रतिज्ञामासूत्र्य मित्रेभ्योऽप्यनिवेद्य सद्यः सतूणीरं धनुः सहायीकृत्य सागरो नगरान्निरैयत् । ततो भुवं परिभ्रमन् प्रतिपदं पान्थान् पृच्छन् प्रति गिरिगुहां गवेषयन् प्रति तरून् शोधयन् प्रति तटिनीतटकोटरं निरूपयन् हेडम्बवनखण्डमाप । तत्र हरिण्यादिजन्तुजातमालोक्य प्रलपति स्म - कुरङ्गि! सम प्रियायाः सुरङ्गां दृकश्रियं कमल ! मुखकमलकमलां कलापिन् ! केशकलापलीलां अशोक ! करचरणाङ्गुलिपल्लवच्छायां शशाङ्क ! कपोलपालिशोभां चापहृत्य विषमविषमस्थानेषु यद्यपि यूयं निलीनाःस्थ तथाप्यधुना मम प्रिया ( याः ) प्रतिप्रतीको पाहतां श्रियमर्पयत, नो चेत्कु