________________
स्वार्थसिद्धये तामलिप्ती पुरी, क्षणमात्रमप्यत्र मा तिष्ठ,जनन्याः शाकिन्याः कियत्कालं जीव्यते ?, सुरेन्द्रदत्तोऽप्युवाचतात ! कथमेतत् ?, ततस्तत्पुरः श्रेष्ठिनाऽऽमूलचूल वृत्तान्तं निवेद्य सागरचन्द्रनामाङ्कितं मुद्रारनं च वितीर्य सार्थ
घटनां संसूत्र्य च तामलियां सुरेन्द्रदत्तः प्रेष्यत, सोऽपि पित्रोः परिज्ञानचिन्तया सशल्पे इव प्रतिग्रामं प्रतिपुरं| I सागरचन्द्रं पृच्छंस्तामलिप्ती प्राप, तत्र धनं धनं समर्जयन् श्रीऋषभदेवप्रासादे पूजार्थ जग्मिवान् , तत्र च शासनदेव| तां श्रीचक्रेश्वरी महाप्रभावामष्टमतपसा पूजोपचारेण चाराधयामास, सापि प्रकटीभूय तमाह स्म-वत्स ! तब पिता १ सागरचन्द्रो माता च मृगाङ्कलेखा सिद्धार्थपुरे प्रियमेलकोद्याने संङ्गस्येते अतो मा खेदमुबह, तयोः परिज्ञाने चेदममिज्ञानं त्वामवलोक्य प्रक्षरत्स्तन्यधारा भवित्री सवित्री जनश्च सागरचन्द्रं निरुप्य सुरेन्द्रदत्तस्य पिताऽयमिति वदियति, अद्यतनदिनाच्च मासकेन भवतः पितृभ्यां सह मेलो भविष्यतीति निगद्य तिरोधे देवी । ततः स परमानन्दामृतसिक्त इव श्रीनाभयप्रभुमभ्यर्च्य पारणकं विधाय सिद्धार्थपुरं प्रति महता सार्थेन प्रतस्थे । इतश्च सागरचन्द्रः श्रीमदवन्तिसेनराज्ञा शत्रुञ्जये राजनि विजिते कटकाद्वयाघुट्य प्रियादर्शनोत्कण्ठितो निजधामाजगाम,सर्व खोपार्जितं । द्रविणजातं पितुरपयित्वा प्रियाविप्रयोगाग्नितप्ताको मृगाङ्कलेखावासभवनं वदनमिव नयनहीनं गगनमिव तुहिनकररहितं शून्यमालोक्य व्यचिन्तयत्-कि केनापि प्रयोजनेन पितृसन गता? अथवा हतविधिना किञ्चिदन्यथा व्यलासि? ततः स गत्वाऽम्बामवोचत्, मातमेन्मनःकुमुदसमुलासनमृगांकलेखा मगाङ्गलेखा क सम्प्रति बत्तेते ?,lis