________________
,
तरोः फलं, समाराधय स्मरदेवमिति तद्वचः श्रवणकीलसदृशं श्रुत्वा सा स्माह-रूपाजीचे! मया शीलमेवावालकाल यावत्परिशीलनीयम् उभयकुलशैलकुलिशसदृशं नाद्रिये वैश्यात्वं तदनु तथा दुष्टया रुष्टया निविडं निगडिताऽपि सा सतीमतल्लिका न शीललीला यितादभ्रश्यत् विधिवशाच तस्यामेय निशि कीनाशनिशान्तमाशिवाय वेश्या, अथ पापफलमविकलमपि जानानाभिः शुम्भलीभिर्बलादपि तस्या वेश्यायाः पदे साऽभिषिक्ता, तथापि त्रिकरणशुद्ध्या सा शीलमेव पालयन्ती तिष्ठति स्म, न कथमपि तद्वचो मन्यते स्म । ततो गणिकाभिः श्रीकनकध्वजराजस्य पुर स्तात्तद्रूपसौन्दर्यातिरेको व्यावर्णितः, सोऽपि तद्रिरंसावशविवशाशयस्तदानयनाय प्रतिहारं प्राहिणोत् सापि तं | वेत्रिणं चित्रिणभिवालाप मात्रेणापि न सम्भावयति स्म, सोऽपि तां पटुचाटुवचः पूर्व प्रोवाच सुभ्रु ! राजाभियोगोऽयं नान्यथयितुमुचितः स्वयमेव त्वं विचारचतुरासि, ततः सा मौनावलम्बिनी तेन वेत्रिणा बलात् सुखासने क्षित्वाऽचाल्यत, साप्यनन्योपाया कपटेन बैंकल्यमवलम्ब्य सुखासनात्पतित्वा भुव्यलुठत् यथा खैरं व्याजहार, वस्त्राणि: स्फाटयामास, मृगमदक्षोदमिव पङ्कं सर्वो लगयामास, समीपवर्तिनं जनं च लेष्वष्टिमुष्ट्यादिभिराहन्ति स्म, ततो वेश्याभिर्व्यावृत्त्य स्वगृहमानीयत, तदुःखार्त्ताभिस्ताभिर्मवादिनः समाहूताः सा च तान् समीपवर्त्तिनो लकुटैराजधान, तदनु मेदिनीजानिना महामन्त्रविद्याविशारदः कनकवाहुनामा निजाङ्गरक्षस्तदोष परीक्षायै समादिदिशे, सोऽप्येकान्ते श्रीचन्द्रप्रभखामिशासनदेवतां ज्वालामालिनीं फनीशरीरेऽवतायें मृगाङ्गलेखाया दोषमप्राक्षीत्, देव्यपि तन्मु