________________
लोक्य पुकार - हा हतकविधिना मुष्टा मुष्टा, ततो मूर्च्छाच्छन्न चैतन्या वज्राहतेव पपात शिशिरसमीरणेन च लब्धचैत्यन्या विललाप - " वत्स! श्रीवत्समत्स्यादिलक्षण श्रेणिलक्षित! | सुवर्णवर्णवर्ण्याङ्ग ! कां गतिं गतवानसि १ ॥ १ ॥ हा कथं । हमला, किन्तु प्रतिकूलेन विधिना वञ्चिताऽस्मि, रे देव! प्रियतमबन्धुवजेप्रियसखीविप्रयोगं दत्त्वाऽपि न तुष्टोऽसि ? दुष्टाशय ! यत्कष्टमिष्टपुत्रस्यापि ददासि एवं विलपन्ती सा चलववलभया ललिताभिधया तद्दुःखदुःखितया कथमपि संस्थाप्य स्वेन साकं गोकुले निन्ये । तथा तस्या वपुश्च मधुरतरगोरसेन सुहितीचक्रे, साऽन्यदा | गोकुलखामिना वसन्तेन क्षामान्यपि विजितसुररमणीरूपा निरूपिता, तस्यामत्यन्तानुरको ललिताया गोकुललोकमु| खेन स पनि चाटूनि कारयामास, सापि तेन गणाभियोगेनापि तं वसन्तं सपत्नमित्र प्रेक्षाञ्चकार, ततः सुनिश्वलं शील+ लीलायितं तस्या विलोक्य ललितया सुललितया गिरा गोकुलपतिरभाष्यत - स्वामिन्! अन्यापि सती पूज्या स्यात्, किं पुनरियं स्ववेश्मसमेता ?, ततस्तेन दुरात्मनाऽनङ्गग्रहग्रहि लेन चेतसीत्यचिन्ति- नूनमेपा यावन्मम वेश्मनि न तिष्ठति तावन्न मद्वचो मन्यते, इतस्तां बलादपि खसमीप मानयामि, ततस्तां सुखसुप्तां निशीथे स स्वयमपहत्य गृहमानयत्, तत्प्रार्थनां च बहुशोऽकार्षीत्, तस्याः शीलानुभावेन स पापीयान् वासितवान्त्या तत्र विपेदे । ततश्थ - "हिमकरकिरणसहोदरमस्या | विललास गोकुले तु यशः । यद्वाऽत्र निष्कलङ्कं शीलं किं किं न साधयति १ ॥ १ ॥ " वसन्तपरिजनेन च सा सत्कृत्य ललितागृहं प्रति प्रेषिता सती मार्गभ्रष्टाऽरण्ये पतिता मार्गश्रान्ता न्यग्रोधतरुतले उपविष्ठा कर्मपरिणतिं विमृशन्ती दैवयोगेन