________________
“अक्षिपक्ष्म कदा लुप्तं ?, छिद्यन्तेऽत्र शिरोरुहाः। वर्द्धमानात्मनामेव,प्रसङ्गिन्यो विपत्तयः॥२॥ एवमाश्चास्य बनदेवता : तिरोदधे, क्रमेण रात्रिरपि विरराम । तदा सागरचन्द्रनामाङ्कितमुद्रारत्नसनाथेन वस्त्राञ्चलेन समन्तात्परिवेष्टय देवकुलैककोणके तं सुतमयस्वाय खधं सातुं वासासि वालायतुं च समीपवर्तिनि पद्मसरसि जग्मे । तस्मिन्नवसरेऽत्यन्तबुभुक्षितेन शुनाऽऽमिषगन्धाकृष्टेन स दारको जगृहे, धिर धिम् इमां कर्मपरिणति, न कदाप्यनवकाशः प्राकृतसुकृतदुष्कृतयोः, यतः-"ज जेण किंपि विहियं अन्नभवे इह भवे य सुहमसुहं। तं सो पावइ जीवो बच्चइ देसंतरं जइवि ॥ ॥१॥धारिजइ इंतो सागरोवि कल्लोलभिन्नकुलसेलो । नहु अन्नजम्मनियकम्मनिम्मिओ दिवपरिणामों ॥ २ ॥ ततः स बालकः समीपसरित्तटे शौचार्थमेतस्य वैश्रमणश्रेष्ठिनः पुरस्तात्तदर्शनतस्तस्य सारमेयस्य यदनादपतत् । तेनापि तत्र प्रवालदलकोमलकरचरणकमलो वालो व्यलोकि, तमादाय जातामन्दप्रमोदो निन्द्रा धनवतीनाम्याः सजायाया आर्पयत् , साऽपि तत्कालजातक(बालक) परासुं दास्या त्याजयित्वा तत्स्थाने तमभिनवं बालकं स्थापयामास, ततस्तजन्ममहस्ताभ्यां पितृवचक्रे, संवृत्ते च द्वादशाहे सुरेन्द्रदत्तइतिनामविदधे, तन्माहात्म्याच वैश्रमणः स्वल्पकालेनैवी श्रमणतां विभवेनाऽऽशिश्राय, धनवत्यपि निन्दूदोपमुज्झांचकार, ततस्तस्याश्चापरौ नरदेवधनदाभिधौ तनयाय-13 भूतां, सुरेन्द्रदत्तोऽपि क्रमेण वर्द्धमानश्चारुतारु एवं बभार, पित्रा द्वात्रिंशतं वधूः परिणायितो दोगुन्दुकलीलामाकलयामास । इतश्च भृगाङ्कलेखा देहं यासांसि च प्रक्षाल्य सरोवराद्यावदागता तायदानन्दकन्दलीकन्दं तं तनूभवं तत्रानव