SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ यभिगत्य स्वसार्थे नीत्वा कुलदेवीमिव तामाराधयन् सहकृत्य पुरश्वचाल । साऽपि तत्परिकरोपचारकिञ्चित्सञ्जातसौख्या यावदस्थात् तावत् सार्थादिन्धनाद्युपहरणाय चित्रलेखा दूर गता मिलेरपजहे । साथैषादेन सर्वत्र गवेषिताऽपि नावापि, पुनरभिनवदुःखा मृगाङ्कलेखा सखीवियोगात्तथा विललाप यथा सर्वोऽपि सार्थोऽत्यर्थे विहस्तोऽभूत्, | हा प्रियसखि ! सम्प्रति के प्रति खं दुःखं निवेद्य सुखयिष्याम्यात्मानं ? को. या मां त्यां विना दुःखिनीमाश्वासयिता ? मया च सह को दुःखं सोडेति विलपन्तीं तां कथमपि संस्थाप्य सार्थवाहः कियद्भिर्दिनैर्नन्दिनपुरपरिसरे यावत्सार्थ न्यवेशयत् तावलाटदेशाघीशितुः श्रीशत्रुञ्जयस्य राज्ञो मित्रेण विजयराजेन मालवकदेशादागतः सार्थोऽयमिति सर्वोऽप्यलुण्य्यत । तस्मिन्नवसरे वाताहतचम्पकलतेव कम्पमानाजी मृगाङ्कलेखा प्रपलाय्योद्यानदेवकुलैक कोणे न्यलीयत । तत्र निशीथे सा सिंहारवश्रवणसम्भूतभया रविमिव प्राची तेजखिनं सुतमसूत तं स्वकुलनभस्तलचन्द्रं विलोक्य चन्द्रः समुदियाय, यद्वा सत्पुरुषजन्मनि के नाम नोदयं लभन्ते । । चन्द्रचन्द्रिकोद्योतितदेवभवने मृगाङ्गलेखा पुत्रजन्म मत्वा विस्मृतदुःखप्रकर्षा जहर्ष । सा तमुत्सङ्गिनं विधाय सकष्टमरौत्सी (रोदी) त्- बत्साहं निर्भाग्यशिरोमणिस्तव | जन्मनि कमुत्सचं करोमि ? यदि सम्प्रति त्वत्पिता सविधस्थोऽभविष्यत्तदा देवानामप्याश्चर्यकारिणं महामहमकरिष्यत्, तद्वत्स ! गतभाग्यलेखायाः (मृगाङ्कलेखाया) कुक्षौ त्वं किमवातरः ? । एवं विलपन्ती सा कथमपि चनदेवतयेति बोधिता - " रिद्धी वा हाणी वा, गरुयाणं न उण दीणहीणाणं । महिमा उवरागो वा, ससिसुराणं न ताराणं ॥ १ ॥
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy