________________
| महिमण्डलं मण्डलमण्डयन्ती सा पुरश्वचाल । ततः प्रतिनिर्झरं वारि पिवन्ती प्रतितरुं विश्रमन्ती कियद्भिरहोभि: शून्यारण्यं पतिता सती सती मुक्तकण्ठमरोदीत् सगगदमवादीच - अमन्दानन्दसन्दोह द्रुमराजिपयोधरः । सागरेन्दो ! जीवितेश!, द्रष्टव्योऽसि कदा मया १ || १ || प्राणप्रिय ! मया प्रोक्तेनापि यद्भवता दीर्घदर्शिना प्रयाणकनिशि निजांगमनं पित्रोर्न न्यवेदि तन्मे पातकिन्याः कुकर्मविजृम्भितं न तत्र दूषणं, हहा काननजलगगनदेव्यो मामेवंविधदुःख| सागरनिमझां प्रियाय किं न कथयत ? हा तात हा मातर्भ्रात्रा भणितावपि मम पातकेन कुलिशादप्यति कठिनहृदयौ। जातौ वत्सलावपि, हा दैव ! त्वयाऽहमाजन्म तावतां दुःखानां भाजनं विहिता यात्रन्तः कलोलाः कल्लोलिनीपतिजलेऽपि न सन्तीति पुनः पुनर्विती तसादिमति पशिकोलाहलच्छलेन रोदयामास । एवं निरशना दिनत्रयप्रान्तेsरण्यमध्यमध्यासीनां तां चित्रलेखा सखी स्माह-प्रियसखि ! अस्मिन्नरण्ये भक्ष्यफलादिशून्ये किमपि कन्दादिकमाखाद्य प्राणधारणा विधीयते यदि त्वं वदसि तदा सा क्षुधाबाधिताऽपि तामूचे सखि ! कन्दादीनामनन्तकायानामहन्मतेऽभक्ष्याणां वृत्तिकान्तारेऽनुज्ञातानामपि खादनेन न नियमभङ्गं करोमि असारतरप्राणत्राणाय । इतश्च त त्रायातेन चित्रगुप्तसार्थवाहेन खसेवकमुखेभ्यो ज्ञाततत्त्वेन तस्याः समीपमेय ददुः खदुःखितेन साऽभाणि भगिनि । किं तारतरं रोदिषि ? कस्य वा सुभगशिरोमणेः परिग्रहेऽसि ? यत्र त्वमावेदयसि तत्र त्यां नयामि, ततः साऽपि तद्वचः - | श्रवणेन किञ्चिज्जातसन्तोषा खचरित्रं तदमे न्यवेदयत्, बान्धव ! नय मां श्रीमदवन्तिसेनराजध्वजिनीं, सोऽप्योमि