________________
2
-2-%-2
6
जानानाः १ परं यदचिन्त्यं यच यक्तुमप्यक्षम तन्नार्यः अनार्यहृदः कुर्वन्ति, यतः-जं चिंतिउं न जुग्गं न होइ वुत्तपि। जं खमं होइ । नारीउ हयासाओ करंति कारंति तंपि इहं ॥१॥ तद्गच्छ गच्छ नाहं त्वद्वदनमप्यालोकयामि, यदि पर तव स्थानदायिनी रम्भैव सदम्भाया इति निर्भर्त्य स्ववेश्मनः सवयस्यां तां निर्यास्य खदास्था च धनसाररम्भयोस्तत्व-18 रूपं साऽभाणयत्-यदेतस्या निजनन्दिन्याः सुपरीक्षिताया एवं प्रवेशो देयो नेतरथा । ततश्च शिशिरतुदग्धपमिनीव परिम्लानवदना सवितृच्छविविलुसकान्तिप॑गाङ्कलेखेय मृगाङ्कलेखा चित्रलेखासखीसहाया जनकनिकेतनद्वारमग-3
मत् । तच्छश्रृपूर्वविप्रतारिताभ्यां ताभ्यां सा वेश्मनि प्रविशन्त्येव न्यत्रारि । तदा तदीयबन्धुना धनञ्जयेन जनको:है भण्यत-तात! यद्यप्येषा श्वशुरकुलान्निरवास्थत तथापि तवावगणितुं न युज्यते, यावत्सैन्यात्सागरचन्द्रः समेति ताव
द्रुतं प्रकटं वा स्थापयितुमुचिता । श्वश्रूवचसा त्वया प्रोज्झिताऽवश्यमियं प्राणांस्त्यश्यत्यपमानेन, यतः श्वशुरकुलपराभूतानां सुतानां पितृकुलमेवाधारः, तत्कृपां कृत्वा मैनां निर्वासय, यतस्त्वं तातोऽसि अत एवोच्यते, सुनुनैवमु-13 तोऽपि हृतसार इव धनसारो निर्भाग्य इवागतां श्रियं तां निरवासयत् । ततः सा जनकापमानेन विशिष्य सदुःखा | मुक्ताफलस्थूलान्यश्रूणि मुञ्चन्ती दुर्जनैरुपहस्समाना सज्जनैरनुकम्प्यमाना पौरनारीभिरावास्थमाना सवयस्था पुरान्निःससार । अनुदिनं सागरचन्द्रस्य पन्थानं पृच्छन्ती खरतरखरकरसन्तापिता सरःसन्निहिततरुमूले मध्याहे क्षणं पिशश्राम । जाते च पश्चिमे यामे प्रियमार्गमनुसरन्यदभ्रदर्भमूचिकानिशितानभिन्नां हिक्षरदसपरम्परयालक्तकेनेव