SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ नरीवितीर्णमूलिकाद्रवविलिसपादौ दुर्जनमन इव श्यामलं नभस्तलमुत्प्लुत्य मृगाङ्कलेखावासवेश्मद्वारं प्रापतुः । तत्र तल्पे सदुःखाननल्पान् जल्पान् कल्पयन्ती स्वल्पजलस्थितशफरीमिव बेल्लनोद्वेलनानि तन्वन्तीं पुनः पुनः सखीजन-15 नाश्चास्यमानां निवासवाततापैर्मुर्मुरितशय्यीकृतसरसीरुहां निःसहदेहां मृगाङ्कलेखां विरहविधुरां ददर्श सागरचन्द्रः। अथ तेनेरितो धनमित्रोऽन्तर्वासवेश्म विस्तमा दकितः-अरे कोऽमि कुत आगतः? किंवा ते कुपितः कृतान्तः ? यदधुना सागरचन्द्रप्रेयस्या लीलालयं प्रविष्टः, अत्रार्यपुत्रं विहाय वासवस्थापिन प्रयेशः किं पुनस्तव, तस्मादि जिजीविषा तदा मक्षु निर्गच्छ, नो चेनिजशीलप्रभावकृशानुनेन्धनमिव भवन्तं भस्मसात्करिष्यामि । चित्रलेखे! इमं 8 वाहू धृत्वा दूरय दुराचारमिति व्याहरन्ती तेनामाणि-सतीशिरोमणे! मां खप्रियस्य प्राणप्रियं धनमित्रं मित्रं मित्रस्येवा-1 रुणं जानीहि, तस्मादूरीकुरु वासमन्दिरादसुखकारणं विरहोपकरणं, समागत एव सम्प्रति वामनुस्मृत्य भवढ्दयसागरचन्द्रः सागरचन्द्रः, साऽपि सखेदा तमाह स्म-धनमित्र ! अमित्र इव किं मां दैवहतकामुपहससि ?, सम-15 सोऽपि खसुहृदं मयि किं न प्रसन्नं करोपि? । अत्रान्तरे सहसा सागरचन्द्रं प्रविशन्तं तदुक्तिप्रेमामृतसारिणी वाणी शृण्वन्तं विलोक्य सलज्जा शय्यातः सोत्तस्थौ । ततः सागरः प्रियां प्राह स्म-जीवित्तेश्वरि ! कृतं संरम्भेण, मम नि-1 बिचारस्य दुःखेन सुतरां पीडिता कशाऽसि, परमहं धन्यः, यत्त्वं मया प्राणन्ती प्राप्ताऽसीति ब्रुवाणस्तां करकमलेन । गृह्णन्नयमिव विवाहं प्रकाशयंस्तयाऽभाणि-नाथ मैवं वोचः, तबाहं सदैवानदास्येवास्मि । ततो दम्पत्योरेयं निर्भ-15
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy