________________
प्रतापनिर्यापणार्थमिव पङ्कहां क्यस्यः । संहत्य रश्मिनिकरं परितः स्फुरन्तं, द्वीपान्तरे सपदि त्रासमहो चकार ॥१॥ आकाशवाससदने रजनीरमण्या, विध्यापितः किल हियेव दिनेशदीपः ।रागान्नवप्रियतमस्य सुधाकरस्य, सम्भोगयोग-13 भवसौख्यचिकीर्षयेव ॥२॥ निद्रायमाणविपुलायतनेत्रपत्रा, अम्लानवकमला नलिनी नवोढा । अन्तर्निलीनमधुकनिकैतयेन, सा रोदितीव रविभर्तृषियोगदुःखात् ॥३॥ दुष्टप्रदोषसमयावनिनायकना-लोके विलुप्तवति सर्वजगज्जनानाम् । खैरप्रचारफरणायतमिश्रनीर, राज्येऽभ्यषिच्यततरामसतीजनोऽयम् ॥ ४॥ तस्मिन् क्षणे तुहिनभानुर- साववाप्य, पूर्वोदयं निजकरैस्तिमिरान्तरन्थः । सीमन्तिनीजनस्वाक्षरिवाशु, बके स्मरातुरमिदं प्रणिहत्य विश्वम् । ॥५॥ तदा सकलपरिच्छदचिन्तां कृत्वा सागरचन्द्रः पल्य) सुसो मुहुर्मुहुः करुणाखरं प्रलपन्त्याः किंनर्या ध्वनिरीपीत् । तत उत्थाय कृपाणमादाय निर्भयखान्तोऽनुशब्दं गच्छन् पत्रलवन निकुञ्ज प्राप्वका सृगाक्षीं रखाभरणधुतिद्योतितदिगन्तां विरहज्वलनजाज्वल्यमानाङ्गी पुनः पुनरतुच्छां मूछी गच्छन्ती शिशिरसमीरेण खयमेव चैतन्यमानुयन्तीं पुरो। निरीक्ष्य सागरेन्दुरवादीत्-भद्रे! मृत्यवे कृतारम्भाकिमितित्वमीक्ष्यसे ?, साप्यूचे-बान्धव! स कोऽपि जगति पुमानास्ति, योऽस्मदुःखविभागी सम्पद्यते, परमहं मन्ये परोपकाररसिकाद्भवतः साध्यसिद्धिर्भवित्री, तस्मादाकर्णय यन्मम प्राणेवरो हरिप्रमनामा किंनरसुरः, तस्याहं हारावली नामातिवलभा वलभा, विधिवशात्तेन सह मार्गमागच्छन्त्या ममाकारणकलहोऽजनि, यदध कामिनि ! कदलीगृहेऽत्र रन्तव्यं, ततो मयाऽभाणि-प्रियतमाद्य सुरगिरिशिखरे क्रीडित