________________
वाचस्पतिं सन्धिप्रमुखषङ्गुणसागरचन्द्र सागरचन्द्रं स्वनन्दनं प्रेषय, तं विना ममापारे स्कन्धावारे कोऽपरो लवणकर्पूरादिषस्तुपूरं पूरयितुमीष्टे । श्रेष्ठ्यपि राज्ञोऽस्याग्रहं मत्वाऽनिच्छन्नपि जगाद मेदिनीपतिं सामिन्! यूयं पादमवधारयत सर्वसामग्रीनिस्तन्द्रः सागरचन्द्रः प्रेषयिष्यते मया युष्मदन्तिके । ततो जनकादिष्टः सोऽपि दशमदिने विहितसमग्रसामग्रीको निजमित्रगणमा कार्य सत्कृत्य च कृतकर भसैरिभवृषभतुरङ्गमरथक्रयाणकादिसंवाहनः शुभमुहूर्ते पद्मया ज | नन्या निर्मित भालस्थलतिलकः क्रियमाणप्रस्थानमङ्गलो मृगाङ्कलेखया कडकं गतः कदा मया दयितो द्रक्ष्यते ? तदधुना पराचुखोऽपि निरीक्षणीय इति विमृश्य सख्या सहागत्य विलोकितः । सागरचन्द्रेण बहुकार्यव्यग्रेण कथमपि तां वीक्ष्य निजपरिजनव्यापारणसम्भाषणप्रवणेनापि मौनत्रतेन स्थितं । ततः सा तत्पदपद्मयोर्निपत्य सगद्गदगिराऽवादीतू - प्रियतम ! किमर्थं मां भक्तां रक्तां क्लिश्यन्तीमदोषामुपेक्षसे ?, यतः - एतावत्यपि काले, गते परीक्षा कृता न यन्नाथ ! । सङ्कल्पितदोषहरी, तन्मे वृजिनस्य माहात्म्यम् ॥ १ ॥ अस्मिन् प्रयाणसमये, दासानामप्यकारि सकलानाम् । सम्भाषणमुज्झित्वा, मामेकामहह पातकिनीम् ॥ २ ॥ एवं जल्पन्तीमपि तामवगणय्य पितृपादानभिवन्द्य स्वमन्यत्सैन्यमित्र प्रकटयंश्चचाल सुहृत्कलितः सागरचन्द्रः । तदनु मृगाङ्कलेखाऽपमानशतगुणितदुःख छिन्नशाखेव तल्पे गत्वा पपात । क्षणं मूर्च्छन्ती क्षणं चेतयन्ती क्षणं देवमुपालम्भमाना वर्षलक्षोपमं दिनं कथमपि व्यतीयाय । | सागरेन्दुरपि सहागतजनं सत्कारपुरस्सरं विसृज्य तटिनीतटनिकटे सार्थं निवेश्य तस्थौ — अत्रान्तरे विरहिणीजनती