SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ तत्पाणिग्रहणविरक्तचित्तोऽपि सागरचन्द्रः पितृवचोभकभीरुन विवाहविधि न्यषेधयत् । नैमित्तिकदत्तदिने जनाश्चर्यकारी तयोः पाणिपीडनमहामहः समजायत । व्यतीते च दशमहिसागरदत्तेन तस्यै सप्रसादं निवासाय ददे प्रासादः। तत्र सुखेन निवसन्तीं तां सागरचन्द्रस्तहिनादेव सातानुशयो दुस्वप्नवन्न स्मरति स्म न जल्पति स्म न रशापि वीक्षते स्म, किन्तु निजदुश्चरितमिव तन्नामापि न प्रकाशयति स्म । सापि कमपि सदोषमपश्यन्ती तत्सम्भाषणमात्रस्याप्यप्राप्त्याऽधिकं खेदमुद्दहन्ती निजदुपारी परिणति पारिभावाडी बायकाटलनल्पे मुखशशिनं निवेशयन्ती चित्रलेखाऽऽश्वासनवचनान्यशृण्वन्ती हृदयोद्गतविरहहुतभुविध्यापनायेव नयनाश्रुपूरं परिमुञ्चन्ती अशनपानविलेपनशृङ्गारादिकमझारप्रकरमिवोज्झन्ती प्रायः स्वस्य मृत्युशरणसरणमेव गवेषयन्ती कृष्णपक्षेन्दुलेखेव सविलक्षा मृगाङ्कलेखा समयं ग-14 मयति स्म । ततस्तद्विरहसन्तापोच्छित्तिचिकीर्पया सखीजन: सरसीः सरसीरहविरहिताः कङ्केलियनान्युचुचितपल्ल-15 वानि मलयाचलमचन्दनं च चक्रुः, तस्याश्चान्तरः परिकरो रत्यरुचिश्वासरणरणकरूपः प्रियः समभूत, अपरस्तु बाह्य-18 परिचारः पटुचाटुपरोऽपि क्षार इव सञ्जज्ञे । कदाचिरसा सदुःखं सखीमेवमाह स्म-मन्मथामिपरितप्तमनस्कं, च-18 हीन्दनेन किमु लिम्पसि गात्रम् ? । अन्तरङ्गवहिरङ्गविधानादन्तरङ्गविधिरेच बलीयान् ॥१॥ एवं दुःखमनुभवन्या तया | कथमप्येकविंशतिवर्षाण्यतिवाहितानि । अत्रान्तरे श्रीनदयन्तिसेनो राजा चतुरङ्गचमूयुक्तो लाटदेशाधिपजिगीपया : |चचाल साचलामप्यचलां चालयन्निव । तदा च राज्ञा सादरं सागरदनोऽमाप्यत-यन्मया साकं नीतिचतुष्कचातुरी
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy