________________
सिद्धार्थ नामक सिद्धपुत्रप्रदत्तमन्धपटं प्रावृत्य यत्र सा वर्णिनी वर्णके निवेशितास्ते तत्र ती जग्मतुः । तस्मिन्नवसरे मृगाङ्कलेखा चित्रलेखापत्रलेखादिवयस्याभिः समं परमानन्दमयीं गोष्टीमासूत्रयन्ती तिष्ठति स्म । अथ चित्रलेखा मृगाङ्कलेखामाह स्म - प्रियसखि ! त्वमेव भुवि धन्याऽसि यया सौभाग्य सागरचन्द्रः सागरचन्द्रः प्रियतमो लेभे यतः --- अनुरूपः कलाशाली, वदान्यः सवयाः सुधीः । धनवाननुरक्तश्च, पुण्यैः सम्प्राप्यते पतिः ॥१ ॥ अथ तद्वचः प्रतिकूलयन्ती पत्रलेखाऽभाषत-मुग्धे ! चित्रलेखे सत्यं चित्रलिखितेवासि, न जानासि सारासारं, किन्तु मत्सखी - योग्यतारुण्यपुण्य लावण्योऽनङ्ग इव चङ्गोऽनङ्गदेवो घनदेवाङ्गभुरस्ति, ततोऽपरा व्याजहार — पत्रलेखे ! पत्रलेखेवासि, न पात्रपरीक्षादक्षाऽसि, नूनमनङ्गदेव को नामानङ्गसमं न मन्यते ? परं मया वयस्थावरार्थे संत्ररनामा ज्ञानी पृष्टः, | तेनापि जगदे जगदेकवन्धुना - असावनङ्गदेवो न मृगाङ्गलेखाया उचितो वरः यदेष विंशतिवर्षपरिमितायुः, तदन्यन्या जगाद -भगिनि ! त्वमपि न जानासि स्तोकमप्यमृतं बहुसुखावहं स्यान्न विषभारः, मृगाङ्कलेखा तु दक्षापि कक्षीकृतामन्दमन्दाक्षा दृशापि ता न न्यषेधयत् । तस्मिन्नवसरे सागरचन्द्रः सर्वे तासामालापं कर्णकटुकमाकर्ण्य कोपाटोपसमुत्कटललाटपट्टः कृपाणमाकृष्य तद्वधाय यावद्धावति स्म तावद्धनमित्रस्तं करे धृत्वाऽत्रवीत्-मित्र क एप तव शेषावसरः १, यतो वामापि वामा न विनाशमर्हति विशिष्य लज्जासज्जा मृगाङ्कलेखेव निरवद्या मृगाङ्कलेखा, एता अपि तत्सख्यो मिथो नर्मालापं कुर्वन्त्यः कथं वधमर्हन्तीति सम्बोध्य कथमपि सुहृदा स गृहं निन्ये । ततः परं