________________
भवति सफलं तव जन्मेति सुहृद्भिरभिहितः स ध्यातवान् मम जन्म यौवनं धनं च सर्वमप्यसारं यद्येनां तिलोत्त मोत्तमां न रेमे । ततस्तस्य स्वगृहं गतस्योद्दामकामज्वरविधुरितस्यान्नेऽप्यरुचिरजायत, विहस्तैरपि जनकादिभिः पृष्टोऽपि न स्पष्टमाचष्ट । तन्मित्रमुखात्कारणं विज्ञाय पितरौ ब्रुवाते स्म - वत्सोत्तिष्ठ भुङ्क्ष्व विद्धि च तां बालां खाशयकुशेशय शयालुं मरालीमिव । इतश्च तत्रैव पुरे सागरदत्तेन श्री ऋषभनाथचैत्यं रत्नमयं कारयित्वा प्रतिष्ठाप्य दशाह्निका महोत्सव दशमदिने धनसार्थवाहः समाहूतः । ततोऽमयप्रदानदीनजनवनीपकवित्तवितरणजिन सङ्घ पूजादिभिर्व्य| सीतप्राये तस्मिन्नहनि सागरदत्तगृहे बहुजनपरिवारो धनसारोऽपि गतः । प्रस्तावोऽयमिति सागरदत्तप्रेरितैर्देव| ज्ञकैरुक्तम् - अपूर्वोऽयं शशिरवियोगो यदद्य ज्योत्स्त्री जाता तस्मादद्यैव पर्वदिनं शोभनं च लनं यद्युवयोरेकत्र सङ्गतिः, ततोऽस्मद्विरा परस्परं कमपि बन्धुरं सम्बन्धं विधत्तं, ततः सागरदत्तेनोक्तम्-मदमजस्य सागरचन्द्रस्य योग्या करगृहीतीभवितुं भवत्कन्या मृगाङ्कलेखा, तदनु धनसारोऽपि सागर चन्द्रस्याप्रतिमं रूपं निरूप्य निजनन्दिनीमदात्, ततो नैमित्तिकाभिहिता द्वयोरपि गृहे विवाहसामग्री संवृत्ता । वधूवरावासने लग्ने वर्णकगृहे निवेशितौ । तदा सागरेन्दुस्तदिदृक्षायै समुत्कण्ठितो धनमित्रं स्वमित्रमवादीत् - भ्रातर्मया तदा देवालये भवदुपहसितेन सा सम्यक् न दृष्टा तदधुनापि तदवलोकन कुतूहलं मे पूरय वर्णकम कृत्वा कथं त्वं तत्र जिगमिवसीति तेन निषिद्धोऽप्याह स्म भवतु यद्वा तद्वा, मया तद्विलोकनेन दृगुत्सवः करणीय एव, एवं तं कदाग्रहग्रहिलं ज्ञात्वा ज्योत्खानाशिततमिखायां तमिस्रायां