SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ अति खस्तिनिवेशे मालवदेशे खसम्पधापालकाजयिनी उज्जयिनी नाम महानगरी, यत्र-सितमणिमयाहच्चैत्यामधुताहततेजसं, सरसिजसुहन्मूर्ति व्योमान्तरालमुपेयुषीम् । प्रदहदगुरुगच्छद्भूमाङ्कितामवलोकयंस्तुहिनकिरणभ्रान्तिं धत्ते जनो दिनयौवने ॥१॥' तप शत्रुचकागक्षितसेनः श्रीमदवन्तिसेनः श्मापतिः। तस्य सुविज्ञातजिनवचनसारो धनसारो नाम सार्थवाहः, तस्य च लावण्योपहसितरम्भा नियुञ्जितार्थिजनदानसंरम्भा पापयापारनिरारम्भा । रम्भानाम गृहिणी, तयोः सौभाग्यपार्वतीगर्वसर्वेकपा प्रज्ञावज्ञातभापा निर्मलशीलकलापहस्तितमृगाङ्कलेखा सृगाङ्कले-12 खानाम तनया,सा बालकालादपि जिनधर्मकर्मकर्मठा कदाचिदुद्यानमध्यवर्तिनि खपितृकारित रत्नमयजिनभवनेऽष्टप्रकारपूजोपकरणकलिता श्रीवीतरागदेवमभिवन्दितुं जगाम । अत्रान्तरे सागरदत्तश्रेष्ठिनन्दनः सागरचन्द्रनामा तारुण्यमुद्रामुद्रिताः समित्रतत्रात्रौकिष्ट । मृगाङ्कलेखाऽपि पुष्पादिभिर्जिनार्चामभ्यर्च्य भावपूजां सिसाधयिषुः कायोत्सर्गेणावास्थित । तथास्था सा सर्वाङ्गाभरणभूषिता शशिसूरायमाणचलत्कुण्डलयुगलालहतकर्णमूला काऽपीयं देयताप्रतिमेति । विसृश्य पदयोर्निपत्य सागरचन्द्रेण प्रणता। तदा हस्ततालपूर्व सुद्भिः सागरचन्द्र उपहसितखानेवाह स्म-भो भोः ! सर्वा अपि देवता नमस्करणीयाः तत्कोऽत्र भवतां हासोल्लासः १, तेऽपि ब्रुवते स्म-वयस्य ! नेपा देवताप्रतिमा, किन्तु | सर्वाङ्गसुन्दरा धनसारश्रेष्ठिसुता मृगाङ्कलेखानाम,-'पुरा भविष्य वेदेषा, तदा लक्ष्म्याः कृते कृती । को नाम पयसां । राशि-ममन्धिष्यद्विचक्षणः ॥ १॥ अत एवनामसारसंसारमरुमार्गामृतसरसीसी दशा सम्यक् परिभावय यथा
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy