________________
मिव निरीक्ष्यैप, बनजः सम्मुखं ययौ ॥ १२५ ॥ आलिशा बन्धुवरस्नेहादुत्तीर्ण नाविकं ततः । आनीय वनसूर्गहे, शाल्योदनममोजयत् ॥ १२६ ॥ नाविकेन स्ववृत्तान्ते, कथिते वनसूरपि । रलासिवजे सं वृत्तं, तत्पुरः प्रत्यपादयत् ॥ १२७ ॥ अथोपार्जितवित्तास्ते, निवृत्ताः पोतनैममाः । स्मृतसन्धास्तदैव द्रागनूपद्वीपमैयरुः ॥ १२८ ॥ तत्र ते नीरमादाय, चलन्तः खपुरं प्रति । आह्वयन वनजं सोऽपि, तदैव प्रगुणोऽभवत् ॥ १२९॥ नावि पोते च सोऽरत्नान् , * सरत्वांश्छगणान् क्रमात् । भृत्येभ्यः स्थापयनेयं, तैरुक्तः किमिदं हि भो ? ॥१३० ॥ सागरथेष्ठिनो वित्तमुपाया | भावतोऽधिकम् । अविज्ञेन मया भद्र, भाग्नेयेनेव भक्षितम् ॥ १३१ । त्यस्तारछगणका? सप्रोपयुज्यन्ते क निर्जने। | अतः सहैव नीयन्ते, बनसूरित्युवाच तान् ॥ १३२ ॥ युग्मम् । तेऽपि स्माहुः त्यजतांस्त्वं, गृहीत्वाऽस्मत्क्रयाणकम् । | खपोते स्थापय क्षिप्रं, दास्यामस्तव भाटकम् ॥ १३३ ।। एवमज्ञाततत्त्वैस्तैईसितोऽपि वपोतकम् । आरूढो वणिजैः || साद्धे, सोऽचालीत्वपुरं प्रति ॥ १३४ ॥ प्रजतां यानपात्राणामर्द्धमार्गे महोदधेः । दुर्दैववशतो वातो वाति स्म प्रातिकलिकः ॥१३५॥ तेनेरितानि तानि लागू, भ्रश्यत्सितपटानि हा । निपेतुर्मण्डलावते, कैवर्त्तर्धारितान्यपि ॥ १३६॥
तत्र भ्रमत्सु पोतेषु, तेषु सांयात्रिकाशिनाम् । इन्धनं हि व्ययीभूतं, बहुकालव्यतिक्रमात् ॥ १३७ ।। अत्र सांयात्रि- कैस्तस्माच्छगणेर्थितेषु सः । स्माह नैतानि विक्रीणे, रिक्तोऽपोतो हि मज्जति ॥ १३८ ॥ अपक्वान्नादनादेते, सञ्जा
तजठरातयः । पुनस्तमवदन् खेन, यच्छैतानि न सोऽप्यदात् ।।१३९॥ तन्मध्यान्मुखरस्त्वेकः, स्माहोद्धारेण देहि नः ।
१९-98454404