________________
महद्भिः पापात्मा विरलमपि सङ्गं न लभते, वियोगं प्राप्नोति क्षणमपि न तैः पुण्यसहितः । अतः किञ्चित्पापं सुकृतमपि श षये, कथ कथं चैष विरहः १ ॥ ८६ ॥ प्रसीद भगवन्नद्य, विचार्य मम योग्यताम् । देहि सद्धर्मकृत्यस्यादेशं पापार्तिनाशनम् ॥ ८७ ॥ मुनिः स्माह जिनं देवं गुरुं निर्ममताहतम् । जीवादितयश्रद्धानमाद्रियख क्षमापते ! ॥ ८८ ॥ सत्काराशनदानादिकृत्यं मिध्यादृशां पुनः । सम्यक्त्वरलमालिन्यजनकं वर्जयेः सदा ॥ ८९ ॥ सम्यक्त्वं गुरुपादान्ते, राजा सचिवसंयुतः । जग्राह वेतोऽभिमतार्थदान खर्तुसोदरम् ॥ ९० ॥ ततो गुरुं नृपोऽप्राक्षीत्कोऽयं कल्याणभाजनम् । मृगः, सोऽप्याख्यदेषोऽभूद्विप्रो मित्रं पुरा भवे ।। ९१ ॥ अज्ञानतपसा मृत्वा यक्षोऽभूदेष भूपते ! । त्वद्दर्शनेनास्येदानीं, सअज्ञे प्रीतिरहुता ॥ ९२ ॥ मद्दर्शनादमुष्यापि, भद्रकत्वोदयोऽभवत् । मृगरूपं विकुव्यैप, व्यवसायममुं व्यधात् ॥ ९३ ॥ प्रकटीभूय यक्षोऽपि मुनिं नत्वाऽब्रवीददः । सम्यक्त्वं तव पादान्ते ममाप्यस्तु यतिप्रभो ! ॥ ९४ ॥ यक्षोऽवादीदिलापाल !, समये मामनुस्मरेः । येन त्वत्पुण्यकृत्यस्य, संविभागी भवाम्यहम् ।। ९५ ।। ते धर्मशिक्षामक्षूणां प्राप्याज्ञामपि सद्गुरो: । सानन्दास्तं नमस्कृत्य, जग्मुः स्थानं निजं निजम् ॥ ९६ ॥ राजा रत्नमयं विम्बं कारयित्वा जगद्गुरोः । त्रिकालं पूजयामास शासनोन्नतिपूर्वकम् ॥ ९७ ॥ सच्चकार सदा साधूंचकोरानिव चन्द्रमाः । साधर्मिकादिवात्सल्यमकल्पयदनल्पधीः ॥ ९८ ॥ अर्हदुक्तं सदा धर्म्म, तन्वन्मत्रीश्वरोऽपि सः । यत्कृत्यकारी भूपस्य गमयामास वासरान् ॥ ९९ ॥ एकदा मत्रितिलको, मत्री तीव्ररुगा