________________
I
आपद्याप निरासाय पोतमेनमढौकयत् ॥ ७० ॥ इति श्रुत्वा महीजानिर्यावत्स्मारोदुमिच्छति । यानपात्रं समुत्पाट्य, दक्षिणं चरणं ॥ ७१ ॥ वा वाहिलं नैव रिपुरं न पोतकम्। ददर्श किन्तु पूर्लोकं, स्वस्थावस्थं व्यलोकयत् ॥ ७२ ॥ कापि गीतध्वनिं कापि, नाट्यं क्रीडजनं क्वचित् । भूपालः प्रविलोक्योद्यत्कुतुको विप्रमभ्यधात् ॥ ७३ ॥ सिद्धपुत्र ! किमेतत्सोऽप्याख्यद्भूपेन्द्रजालिकः । युष्मद्विस्मापनायैतत् दर्शितं संहृतं तथा ॥ ७४ ॥ प्रीतः कोटिद्वयं तस्मै, सुवर्ण| स्येन्द्रजालिने । दत्त्वैकान्ते महीकान्तः, कान्तादिजनमभ्यधात् ॥ ७५ ॥ युष्माभिरिन्द्रजालस्य, प्रपञ्चोऽयं विलोकितः । तेऽप्यूचुरतोऽत्यन्तं प्रसादाद्वो निरीक्षितः ॥ ७६ ॥ ततोऽवोचन्नृपो याडगिन्द्रजालं त्रिलोकितम् । तादृगेवात्र संसारखरूपं वित्थ चेतसि ॥ ७७ ॥ रूपं प्रेम वलं सम्पदायुर्योवनमङ्गनाः । वातोद्भूतध्वजाचेलाञ्चललोलानि निधितम् ॥ ७८ ॥ निरन्तर स्फुरदुःखप्रेक्षणीयाङ्गणोपमे । संसारे सुखलिप्सैषा, सर्वा सत्वरगवरी ॥ ७९ ॥ इयत्कालं मया व्यर्था, सामग्री नृभवादिका । गमिताऽतः परं धर्त्ता, पारिव्राज्यं च मुक्तये ॥ ८० ॥ श्रीविक्रमसुतं राज्ये, न्यस्य | दानं वितीर्य च । येनाऽऽदायि परिव्रज्या, सोऽहं नउनराधिप ! ॥ ८१ ॥ अर्थोऽयं स्वानुभूतोऽपि कथ्यमानो लघुत्वकृत् । भवेद्यद्यपि युष्मासु, तथापि गुणहेतवे ॥ ८२ ॥ तचरित्रसहस्रांशात्रुदिते नलचेतसि । युक्तं दूरतरं नष्टमज्ञानतमसाऽञ्जसा ॥ ८३ ॥ ततो ननृपः स्माइ, मुनिराज ! भवाहशाम् । धीराणामेव त्रुय्यन्ति, राज्यबन्धनरज्जयः ॥ ८४ ॥ मन्ये मया पुरा पुण्यं किमप्यासीत् कृतं विभो ।। येन त्वत्पादपद्मस्य, दर्शनं समजायत ॥ ८५ ॥ यतः