________________
समाच्छाद्य
क्रम्याक्रम्य क्रमेण भोः ! । महीमेकार्णवां कर्त्ताऽभैषीच्छ्रुत्वेति पूर्जनः ॥ ५५ ॥ भोऽम्बुवाहो महावेगात्, स नभोऽङ्गणम् । गर्जन्नबोधैर्वधिरीचक्रे ब्रह्माण्डमण्डलम् ||५६ ॥ प्रचण्डतडिदाटोपैर्भेदयन् रोदसीमसौ । मुशलाकारधाराभिर्वर्षति स्म स्मयादिव ॥ ५७ ॥ पश्यतामेव लोकानां, निमज्ज्य सकलं पुरम् । आस्थानमण्डपं प्राप, भूपस्य जलमुग्जलम् ॥ ५८ ॥ तत उत्थाय भूनेताऽमात्यनैमित्तिकान्वितः । भयव्याकुलितः सौधन्यारोहत्सप्तमं क्षणम् ॥ ५९ ॥ मन्दरक्षुच्धपाथो धिध्वानसन्निभनिखनैः । आक्रन्दतो जनांस्तत्र स्थितो भूरमणोऽशृणोत् ॥ ६० ॥ हा वत्स वत्स ! हा तात !, हा मातर्हन्त बान्धव ! | अस्मादुपद्रवाद्रौद्रात् कथंकारं छुटिष्यते ॥ ६१ ॥ इति प्रलापांलोकानां, यावछृण्वन् स्थितो नृपः । तावत्प्रापाशु सौघस्य, सलिलं सप्तमं क्षणम् ॥ ६२ ॥ तद्विलोक्यालपद्भूपो, मत्रिणं मतिसागरम् । हहा कृतपुण्यानामस्माकं मृत्युरीविवान् ॥ ६३ ॥ मया श्रावकवंश्येनाप्यहो भोगेकरञ्जना । मुधाऽयं गमितः कालस्तत्सम्प्रति करोमि किम् ? || ६४ ॥ चिन्तारत्ननिभं नृत्यं, वृधागमयता मया । राज्यभोगप्रसक्तेनाग्राहि कोट्या हि काकिनी ॥ ६५ ॥ किं कुर्मः कं स्मरामो वा पूत्कूर्मः कस्य चाग्रतः ? । पतिता आपदम्भोधाचगाधेऽनवधौ वयम् ।। ६६ ।। एवं वदत एव क्ष्मावृत्रमस्तत्र रहना । सलिलं लोलकलोलमालं पादान्तमापतत् ॥ ६७ ॥ भीतः पञ्चनमस्कारं, यावत्सस्मार भूधवः । तावदेकं महापोतमभ्यायान्तमुदैक्षत ॥ ६८ ॥ वलभ्यां तस्य सौधस्य तं प्राप्तं वीक्ष्य मन्त्रिराट् । स्वामिनं स्माह देवामुं पोतमारुह वेगतः ॥ ६९ ॥ अवैमि कोऽपि देवो वोऽगण्यपुण्यवशंवदः ।