________________
प्रोक्तो, ब्रज किं तेन सम्प्रति । प्रेक्षणीयक्षणेऽसुष्मिन् सुराणामपि दुर्लभे १ ॥ ४० ॥ विज्ञप्तोऽथ स भूनाथो, मतिसागरमत्रिणा । खामिन् ! प्रसादमासूत्र्यानाम्यतां स हि वाडवः ॥ ४१ ॥ प्रायो न दृश्यतेऽष्टाङ्गनिमित्तज्ञः पुमान् भुवि । नृत्यं तु दृश्यते नित्यं तव देव । प्रसादतः ॥ ४२ ॥ नृपादिष्टप्रतीहारमुक्तोऽसौ सिद्धपुत्रकः । आशिषं चाक्षतान्याशु, दत्त्वा राज्ञ उपाविशत् ॥ ४३ ॥ पृष्टोऽथ वाडवो राज्ञा, सम्पूर्णे प्रेक्षणीयके । कुशलं तेऽस्ति ? सोऽप्यूचे, निव मे देव ! विद्यते ॥ ४४ ॥ न श्रेयस्तव राजेन्द्र !, नापरेषामपि क्षणात् । परतोऽहं प्रपश्यामि, ज्ञानेन नरपुङ्गवः ! ॥ ४५ ॥ स्तमत्रवीद्राजा ग्रहचक्रसमन्वितम् । किं निपत्य नभचूर्णीकरिष्यति पुरं हृदः १ ॥ ४६ ॥ अथवा कोपतः कोऽपि, सुरः क्षेसा महीधरम् । यद्वा कल्पान्तकल्पोऽभिः समुद्भूयाशु घक्ष्यति ? ॥ ४७ ॥ हा पश्यत जिह्वायाश्चापल्यं वाडवस्य भोः । न्यक्कुर्वन्निति तं भूपो मन्त्रिणाऽभाणि सादरम् ॥ ४८ ॥ स्वाभिन्न श्रेयसो हेतुरेष एव हि पृच्छयताम् । किमेतैर्वचनो हासैरमर्पस्पर्शपांशुलैः ॥ ४९ ॥ ततोऽत्रवीपणे विप्र !, वदाक्षेमस्य कारणम् । सोऽप्यचिवान्मनः शान्तं कृत्वाऽकर्णय वर्णप ! ॥ ५० ॥ यदभावि न तत्कर्त्तुं शक्रेणापि हि शक्यते । वथ भाव्यन्यथा तन्नैवेति सर्वस्य सम्मतम् ॥ ५१ ॥ तन्मा रोषं कुरु क्ष्माप !, मयि सत्यं प्रजल्पति । इत्युदित्वा स दैवज्ञः, पुनर्वक्तुं प्रचक्रमे ॥ ५२ ॥ धाराधरः स्फुरद्धारासारैर्वर्षन् विशाम्पते । । एकार्णवं परं सर्व, क्षणादेव करिष्यति ॥५३॥ एवं वदत एवास्य, कौबेर्यां दिशि वालम् । कञ्चोलक मुखप्रायमद्राक्षीदुन्मुखो जनः ॥ ५४ ॥ स स्माष घनो व्योमा