________________
ध्वे नवेत्यादि गुणपृच्छा, केन ज्वरभरभगन्दरशोफशोपाशवातपित्तकफाती सारादिरोगेणाथवा भूतप्रेतपिशाचपन्नग|ग्रहात्रेशवाधया शरीरकष्टमनुभवतेत्यादि दोषपृच्छा, एवं मिध्यादृग्भिः सह संलापकरणं दुर्गदुर्गतिपाताय, अत एव भगवता निषिद्धं, 'नो मे कम्पइ अजप्पभिई अन्नउत्थिए वा अन्नउत्थियदेवयाणि वा अन्नउत्थियपरिग्गहियाणि अरिहंतचेइयाणि वा वंदित्तए वा नमसित्तए वा पुत्रिं अणालत्तेगं आलवित्त वा संवित्तए वा, तेसिं असणं वा पाणं वा खाइमं वा दाउँ वा अणुप्पयाडं त्रा' इति गाथार्थः ॥ ५० ॥ अत्रार्थे मनितिलककथा, सा चेयम्
घरणीरमणीभालस्थलीतिलकसन्निभम् । विजयाद्दवं पुरं भोगावती जित्वरवैभवम् ॥ १ ॥ तत्र दुर्वारवीर्यारिवनदावानलोपः । नो नाम बडीपालन, परिपालये व गाम् ॥ २ ॥ तस्याभूत्पमहिषी, सर्वान्तःपुरमण्डनम् । सौभाग्यमअरीचूतभूता सौभाग्यमञ्जरी ॥ ३ ॥ तस्य सर्वसहा भर्तुर्बुद्धिपङ्कजिनीरविः । मत्रिणां तिलको मनितिलको नाम मत्र्यभूत् ॥ ४ ॥ श्रीनलः क्ष्मातलखामी, चिरञ्चिरिव वासुकी । निवेश्य वसुधाभारं तस्मिन् सुखमयोऽजनि ॥ ५ ॥ अन्यदा नलभूपालचचाल मृगयां प्रति वाजिराजं समाय, ससैन्यो मन्त्रिणा समम् ॥ ६ ॥ अरण्ये प्रासरत्सैन्यं दैन्यन्यदेहिनाम् । यावत्तावद्ददर्शकं मत्रियुक् भूधनो मृगम् ॥ ७ ॥ आरोग्य यावत्कोदण्डं, काण्डं मोक्ष्यति तं प्रति । तावत्तेन धराधीशो, बभाषे नरभापया ॥ ८ ॥ मृगयाव्यसनासक्तो यत्त्वं हंसि मृगानमून् । तत्तव क्षत्रियोत्तंसाक्षत्रं कर्त्तुं न युज्यते ॥ ९ ॥ तृणाशिनोऽशरण्यांच, बनजान् प्राणिनः कथम् । निरापराधांस्त्वं राजन्!,