________________
॥ तत्तेजसा तरसा तच्छरीरान्निस्सारयामास भूतमयं तिमिरम् , सोऽप्यवासचैतन्यः किमेतदिति ससम्भ्रमं जल्पन् पित्रा, | समालिङ्गितः । ततः स शङ्खमेवमाह स्म, सन्तुष्टोऽहं तव किङ्करः कथय किं करोमि ?, तेनाप्यमाणि-पल्लीपते! मुश्चैतान् बन्दीकृतान्मनुजान् , तेनापि भोजयित्वा सत्कृत्य च ते मुक्ताः तद्वचसा च निरापराधजीववधनिवृत्तिमाघोषयन शङ्कमुपश्लोकयाञ्चके--अहो अस्य मत्रप्रभावः, अहो सर्वेष्वतुल्यवात्सल्योलासः अहो परोपकारव्यापारः अहो निरीहता । ततः शङ्ख तत्र स्थापयित्या गुरुमियाराधयामास । अन्यदा पितृदर्शनोत्कण्ठितं शङ्ख बहुविधार्थसार्थसमतं जनकसविधं प्रापय्य पल्लीशः कृतार्थो बभूव । तत्र शोऽपि मित्रत्रयस्य खस्य च स्वरूपं निरूपयन् बन्धूनां | दुःखं विस्मयं चाकरोत् । ततश्चिरं द्रविणव्ययेन जिनशासनोन्नतिं कुर्यनिरुपमकारुण्यरसं पोपर्यस्तपःशीलभावनामिः। पुण्यमर्जयित्वा सुरश्रियमासाद्यान्यदायुःशेषे वर्तमाने गुरूनपृच्छत्-भगवन्मनुष्यभवे कथं मे बोधिवीजावासि-1 वत्री ?, गुरखो जगदुःश्रीहस्तिनापुरे सूरनरराजसुनुर्जयो नाम त्वं भयिष्यसि, तत्र चित्रावलोकनान्मित्रैः सह मेलेन है प्रबोधो भविष्यति, तच्छ्रुत्वा स देवः स्वप्ने सूरसेननृपमादिश्य मित्तौ पूर्वभववृत्तान्त लेखितवान्, सोऽहं शङ्खजीवः | एते च त्रयोऽपि मे सुहृदः, अतश्चित्रदर्शनान्मोहः प्रबोधश्चास्माफमजनि । एवं समित्रस्य जयस्य राजश्वरित्रमाकर्णयतामनेकलोकानां चित्तेषु करुणामृतसागर उज्जजागार । ते चावगतधर्मतत्त्वाश्चैत्याधुद्धरणं पञ्चपरमेष्ठिमहामत्रस्परगममारिघोषणं च कारयन्तः सुरवरलीलया सुखान्यनुभवन्तः परस्परं प्रीतिभाजः तिष्ठन्ति स्म । अथ जयनृपः सद्गु
FATEHSAASARANA